________________
प्रबन्धः ]
प्रवन्धकोशेत्यपराये दुर्लभः। आमो राजाऽमूल्यं कङ्कणं ग्रहणके मुक्त्वा वेश्यागृहे उषित आसीत् । सा तु 'लक्षणावती पतेर्वारस्त्री । एकं कङ्कणं आमो राजद्वारे मुश्चन्नगात् । अपराह्ने राज्ञः पार्थाद् बप्पभट्टिसूरिभिर्मुत्कलापितम्- देव ! 'गोपगिरौ' आमपार्च यामः, अनुज्ञा दीयताम् । धर्मेण भाणितम्-भवतामपि वाणी विघटते! ५ भवद्भिणितमभूत्-यदा तव दृष्टौ आमः समेत्यास्मानाह्वयति तदा यामः, नार्वाक्; तत् किं विस्मृतम् ? जिह्वे किं वो द्वे स्तः । आचार्या जगदुः-श्रीधर्मदेव ! मम प्रतिज्ञा पूर्णा । राजाऽऽह -कथम् ? । सारर्वदति-- 'आमराजोऽत्र स्वयमागतस्तव दृष्टौ ! । राजाऽऽह--कथं ज्ञायते ? । सारः-यदा भवद्भिः १० पृष्टं भवतां स्वामी कीदृशः विशिष्टैस्तदा भणितम्--स्थगिकाधररूपः, तथा, 'बीजउरा ' शब्दोऽपि विमृश्यताम् । 'दोरों'. शब्दोऽपि यो मयोक्तोऽभूत् । तस्मात् प्रतिज्ञा पूर्णा मे । अत्रान्तरे केनापि राजद्वाराद् आमकङ्कणं धर्मनृपहस्ते दत्तं आमनामाङ्कितम् । द्वितीयं वेश्यया दत्तम् । तद् दृष्ट्वा नष्टसर्वख- १५ स्तद्धन इव धर्मः शुशोच-धिग् मां यन्मया शत्रुः खगृहमायातो नार्चितः, न च साधितः । धर्मेण मुत्कलिताः सूरयः पुरः कापि स्थितेनामेन सह जग्मुः । मार्गे गच्छता आमेन पुलिन्द एको जलाशयमध्ये जलं छगलवन्मुखेन पिबन् दृष्टः । आमराजेन सूरीणामग्रे एत्योक्तम्--
"पसु मेम पुलिंदउ पउ पिपइ पथिअ कवणिण कारणिण । सूरिभिरमाणिकर बे वि करंबिय कजलिणमुद्वहअंसुनिवारणिण ॥१॥
१ ग-'आमो राजाऽत्र'। २ 'दोराशब्दोऽपि विमृश्यताम्' इत्यधिकः ख-पाठः। ३ ग-'नृपधर्महस्ते। • छापा-पशुरिव पुलिन्दः पयः पिबति पथिकः केनापि करणेण । ५ ग-पंथि
६ छाया- करौ द्वावपि करम्बितौ कज्जलेन उदहदश्रुनिवारयतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org