________________
चतुर्विंशतिप्रबन्धे [ ९ श्रीबप्पमट्टिसूरिस्थगीधरो भूत्वाऽऽगच्छत् । आम आवउ इति ब्रुवाणैः सूरिभिधर्माय आमस्य विशिष्टपुरुषा दर्शिताः । एते आमनृपनराः किलास्मानाह्वातुमायाता इति । धर्मेण राज्ञा पृष्टं विशिष्टजनपार्श्वेभो आमप्रधाननराः ! स भवतां स्वामी कीदृशरूपः ? । तैर्निगदितम्यादृगयं स्थगीधरस्तादृगस्ति । प्रथमं मातुलिङ्गं करे धारयित्वा आम आनीतोऽस्ति । सूरिभिः पृष्टम् ---- भो स्थगीधर ! तव करे किमेतत् ? । स्थगीधरीभूतेन श्रीआमेनोक्तम् -'बीजउरा इति । क्षणार्धेन वार्तामध्ये सूरिभिः सूक्तमवतारितम्
"तत्तीसीयली मेलावा केहाँ धण उत्तावली पिउ मंदसणेहा । १० 'विरहि माणुसु जो मरइ तसु केवण निहोरा कन्निपवित्तडी जणु
जाणइ दोरा ॥ १ ॥ 'इति । गुरुणा कथितम् --आम आवउ, आम आवउ । धर्मेण राज्ञा तुअरिछोडं दृष्ट्वा पृष्टम्--- अहो स्थगीधर ! किमिदम् ? ।
तेनोक्तम् --- तू अरि, तवारीत्यर्थः । इत्यादि गोष्टयां वर्तमानायां १५ शनैः शनैः श्रीआमराजश्चिद्रूपो मेलापकान्निसृत्य पुराद् बहिः
स्थाने स्थाने स्थापितैर्वाहनैः कियतीमपि 'भूमिमत्यकाम्यत् । तावता सूरीश्वरो विलम्बाय प्रहरद्वयं कामपि कथामचीकथत् । रसावतारः स कोऽपि जातो यो रम्भा-तिलोत्तमाप्रेक्षणीयकेऽपि
१ अनागम्यताम्, पक्षान्तरे, आम ! आगम्यताम् । २ क- आमनृपनराः' । ३ घ- 'करण' । ४ बीजपूरकम्, पक्षान्तरे द्वितीयो राजा । ५ एतत्पद्यस्य अष्टोत्तरं शतमर्था व्याख्याताः श्रीबप्पभट्टिसूरिभिः, परन्त्वना तु श्रीप्रभावकचरित्रे प्रदशितमर्थचतुष्टयमेवोपलभ्यते ज्ञायते च । ६ घ-‘ह धणउत्तावणी] ली प्रियमंद० । ७ ग-'धणि उतावली' । ८ ग-'विरह जो मणुसु मरइ', घ-विरह माणुसु जइ मरइ तणु'। ९ख-कवणु नहोरा कर्णपवि०,' घ‘कवणु निहोरा किनपवि.' । १० 'इति' इत्यारभ्य 'तवारीत्यर्थः' इति पर्यन्तमधिकं दृश्यते ग-पुस्तके । ११ 'तुवेर'रोपम् । १२ ग--'राजश्चिदुपमेलापक०' । १३ ख.. भिवत्यं(?) अत्यकामत्', घ-'भुवं अतिक्रामत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org