________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये
आमेन गुरूपदेशादेकोत्तरशतहस्तप्रमाणः प्रासादः कारयामासे 'गोपगिरौ' । अष्टादशभारप्रमाणं श्रीवर्धमानबिम्बं तत्र निवेशयाम्बभूवे । प्रतिष्ठा विधापयाश्चक्रे । तत्र चैत्ये मूलमण्डपः सपादलक्षेण सौवर्णटङ्ककैर्निष्पन्न इति वृद्धाः प्राहुः । आमः कुञ्जरारूढः सर्वर्द्धया चैत्यवन्दनाय याति । मिथ्याशां दृशौ सैन्धवेन पूर्येते, ५ सम्यग् दृशां स्वमृतेनेव । एवं प्रभावनाः । प्रातर्नूषो 'मौलमनऱ्या स्वं सिंहासनं सूरये निवेशापयति । तद् दृष्ट्वा विप्रैः क्रुधा ज्वलितै पो विज्ञप्तः --- देव ! श्वेताम्बरा अभी शूद्राः । एभ्यः सिंहासनं किम् ? । अथास्तां तत् । परं हस्वीयो भवतु, न महत् । मुहुर्मुहस्तरित्यं विज्ञप्त्या कदीमानः पार्थिवो मौलसिंहासनं १० कोशगं कारयित्वाऽन्यल्लष्वारूरुपत् । प्रत्यूषे सूरीन्द्रेण तद् दृष्ट्वा रुटेनेव राज्ञोऽग्रे पठितम् -- मर्दय मानमतङ्गजद, विनयशरिविनाशनसर्पम् । क्षीणो दर्पाद् दशवदनोऽपि, यस्य न तुल्यो भुवमे कोऽपि ॥१॥ इदं श्रुत्मा राज्ञा ह्रीणेन सदा भूयो मूलसिंहासनमनुज्ञातम् । अपराधः १५ क्षमितः । एकदा सपादकोटी हेम्नां दत्ता गुरुभ्यः । तैर्निरीहैः सा जीर्णोद्धारे ऋद्धियुक्तश्रावकपार्थाद् व्ययिता । अन्यदा शुद्धान्ते प्रम्लानवदनां वल्लभां दृष्ट्वा प्रभोः पुरो गाथाई राजाऽऽह
अज्ज वि सा परितप्पइ, कमलमुही अत्तणो पमाएण । समस्येयम् । अथ प्रभुः स्माह
पदमविबुद्धेण तए, जीसे पच्छाइयं अंग ॥ १ ॥ राजा आत्मसंवादाच्चमस्कृतः । अन्यदा प्रियां पदे पदे मन्दं मन्दं सञ्चरम्ही दृष्ट्वा गाथाई राजा जगाद
२०
१ क-'हस्त शत.'। २ ग-'बुधाः'। ३ घ.'सर्वध्या' । ४ क-ख-'मूलम०' । ५५.क-ख-'-हसीयो भवतु।६ पादकुलकम् । ७ क-ख. 'तदा'। ८.९ छाया--अद्यापि सा परितपति कमल मुखी आत्मनः प्रमादेन ।
प्रथमविबुद्धेन त्वया यस्याः प्रच्छादितमङ्गम् ॥ १. आर्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org