________________
चतुर्विंशतिप्रबन्धे
[९ श्रीवष्पभट्टिसूरि
अनेक योनिसम्पाता - ऽनन्तबाधाविधायिनी । अभिमानफलैवेयं, राज्यश्रीः साऽपि नश्वरी ॥ १ ॥ ततो राज्ञाऽसौ तुङ्गधवलगृहे स्थापितः । प्रातः सभामागताय बप्पभट्टये नृपेण सिंहासनं मण्डापितम् । तेन गदितम् - उर्वीपते ! आचार्यपदं विना सिंहासनं न युक्तम् । गुर्वाशातना भवेत् । ततो राज्ञा बप्पभट्टिः प्रधानसचिवैः सह गुर्वन्तिके प्रहितः । विज्ञप्तिका च दत्ता - यदि मम प्राणैः कार्यं तदा प्रसव सद्योऽयं महर्षिः सूरिपदे स्थाप्यः । ' योग्यं सुतं च शिष्यं च, नयन्ति गुरवः श्रियम् ।' स्थापितमात्रश्चात्र शीघ्रं प्रेषणीयः । १० अन्यथाऽहं न भवामि । मा विलम्ब्यतामिति । अखण्डप्रयोणेमोढेरकं प्राप्तो बप्पभट्टिः । सचिवैः सूरयो विज्ञप्ताः प्रभो ! राजविज्ञप्त्यर्थोऽनुसार्यः; उचितज्ञा हि भवादृशाः । अथ श्री सिद्धसेनाचार्यैर्बप्पभट्टिः सूरिपदे स्थापितः श्रीः साक्षादिव सङ्क्रामन्ती दृष्छा । रहव शिक्षा दत्तावत्स ! १५ तव राजसत्कारो भृशं भावी । ततश्व लक्ष्मीः प्रवत्स्र्यति । तत इन्द्रियजयो दुष्करः । त्वं महाब्रह्मचारी भवेः
। तदङ्गे
1
"" विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एव "धीराः " अनेन महाव्रतेन महत्तरः स्फुरिष्यसि ।
एकादशाधिके तत्र, जाते वर्षशताष्टके । विक्रमात् सोऽभवत् सूरिः, कृष्णचैत्राष्टमीदिने H१॥ गुरुणा आमराजसमीपे प्रेषितः । तत्र प्राप्तः । 'गोप गिरेः' प्रासुकवनोद्देशे स्थितः । राजा अभ्यागत्य महामहेन तं पुरीं प्रावीविशत् । श्रीप्पभट्टिसूरिणा तत्र देशना क्लेशनाशिनी दत्ता---
६०
५
२०
२५
श्रीरियं प्रायशः पुंसा - मुपस्कारैककारणम् । तामुपकुर्वते ये तु, रत्नसूतैरसौ रसा ॥ १ ॥
19
१ अनुष्टुप् । २ ग 'याणकैमोटर कं' । ३ क - 'भव' । ४ कुमारसम्भवे (स. १, लो. ५९ ) । ५ ग - वीराः । ६-७ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org