________________
प्रवन्धः ]
प्रबन्धकोशेत्यपराह्नये
नाप
५
१०
साक मस्थिमज्ज'न्यावेन प्रीति बद्धवान् । यतः-- 'आरम्भगुवीं क्षयिणी क्रमेण, हवा पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्द्धपरार्द्धभिन्ना, छायैव मैत्री खल-सज्जमानाम् ॥१॥
कियत्यपि गते काले यशोधर्मनृपेणासाध्यव्याधितेम पट्टाभिषेकार्थमामकुमाराकारणाय प्रधानपुरुषाः प्रेषिताः । अनिच्छन्नपि तैस्तत्र नीतः। 'पितुर्मेलितः । पित्राऽऽलिङ्गितः सबाष्पगद्गद्मुपालब्धश्च
धिग् वृत्तनृत्तमुचितां शुचितां धिगेतां . धिक् कुन्दसुन्दरगुणग्रहणाग्रहित्वम् । चक्रेऽङ्कसीन्नि तव मौक्तिक ! येन वृद्धि
र्वार्द्धन तस्य कथमप्युपयुज्यसे यत् ! ॥१॥ अभिषिक्तः स्वराज्ये । शिक्षितश्च प्रजापालनादौ । एतत् कृत्वा यशोधर्मा अर्हन्तं त्रिधा शुद्ध्या शरणं श्रयन् द्यां गतः। आमराजा पितुरौर्ध्वदेहिकं कृतवान् । द्विजादिदौनलोकाय वित्तं दत्तवान् । लक्षद्वितयमश्वानां हस्तिनां स्थानां च प्रत्येक १५ चतुर्दशशती एका कोटी पदातीनां । एवं राज्यश्रीः श्रीआमस्य न्यायरामस्य । तथापि बप्पभाट्टिमित्रं विमा सर्व पलालपूलप्रायं मन्यते स्म सः । ततो मित्रानयनाय प्रधानपुरुषान् प्रेषीत् । तैस्तत्र गत्वा विज्ञप्तम् ~~ हे श्रीबप्पमट्टे ! आमराजः समुत्कण्ठयाऽऽह्वयति, आगम्यताम् । बप्पभाट्टिना गुरूणां वदनकमलम- २० वलोकितम् । तैः सङ्घानुमन्या गीतार्थयतिभिः समं बप्पभाट्टिमुनिः प्रहितः । आमस्य पुरं 'गोपालगिरि' प्राप । राजा सबलवाहनः सम्मुखमगात् , प्रवेशमहमकात्,ि सौधमानैषीत् । अवोचत च-भगवन् ! अर्धराज्यं गृहाण । तेनोक्तम्-अस्माकं निम्रन्थानां सावद्येन राज्येन किं कार्यम् ? । यतः--- __ १ घ- 'आपातगुव:' । २ उपजातिः। ३ घ--'पितुर्मिलितः'। ४ वसन्त । ५ ख-घ--'षिक्तश्च राज्ये।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org