________________
प्रेमन्धः ]
प्रबन्ध कोशैत्यपराये
हृदये हारयामास, षण्मासान्ते स शाक्यराट् ॥ ४८ ॥ षण्मासान्तनिशायां स स्वं निशान्तमुपेयिवान् । तर्कपुस्तकमाकृष्य, कोशात् किञ्चिदवाचयत् ॥ ४९ ॥ चिन्ताचक्रहते चित्ते, नार्थंस्तान् धर्तुमीश्वरः ! | बौद्धः स चिन्तयामास, प्रातस्तेजोवधो मम ॥ ५० ॥ ताम्बरस्फुलिङ्गस्य, किञ्चिदन्यदहो महः ! | निर्वासयिष्यन्तेऽमी हा, बौद्धाः साम्राज्यशालिनः ॥ ५१ ॥ धन्यास्ते ये न पश्यन्ति, देशभङ्गं कुलक्षयम् । परहस्तगतां भार्या, मित्रं चापदि संस्थितम् ॥ ५२ ॥ इति दुःखौघसङ्घट्टाद्, विदद्वे तस्य हृत् क्षणात् । नृपाह्वानं समायातं, प्रातस्तस्य द्रुतं द्रुतम् ॥ ५३ ॥ नोद्घाटयन्ति तच्छिष्या, गृहद्वारं वराककाः । मैन्दो गुरुर्नाथ भूप - सभायेतेति भाषिणः ॥ ५४ ॥ तद् गत्वा तत्र तैरुक्तं, श्रुत्वा तन्मल्ल उल्लसन् । अवोचच शिलादित्यं, मृतोऽसौ शाक्यराट् शुचा ॥ ५५ ॥ १५ स्वयं गत्वा शिलादित्य-स्तं तथास्थमलोकत ।
बौद्धान् प्रावासयद् 'देशाद्, धिक् प्रतिष्ठाच्युतं नरम् ॥५६॥ मल्लवादिनमाचार्य, कृत्वा वागीश्वरं गुरुम् । विदेशेभ्यो जैनमुनीन्, सर्वाना जूहवन्नृपः ॥ ५७ ॥ 'शत्रुञ्जये' जिनाधीशं, भवप्रञ्जरभञ्जनम् । कृत्वा श्वेताम्बरायत्तं, यात्रां प्रावर्तयन्नृपः ॥ ५८ ॥ कालान्तरे तत्र पुरे, रङ्को नामाभवद् वणिक् । तस्य कार्पटिको हट्टे, न्यासीचक्रे महारसम् ॥ ५९ ॥ रसेन तेन स्पृष्टस्य, लोहस्य तपनीयताम् । स दृष्ट्वा हट्टसदन - परावर्त चकार च ॥ ६० ॥
१ क- ख- प्रत्योरिदं पद्यं नास्ति' । २ 'मादो' इति भाषायाम् । 'देशान्' । ४ सुर्वणताम् । ५ क - ' स:' ।
Jain Education International
For Private & Personal Use Only
હે
२०
२५
३ क-ख-घ
www.jainelibrary.org