________________
ઈંટ
१०
१५
२०
चतुर्विंशतिप्रबन्धे
वञ्चयित्वा कार्पटिकं, रङ्कः सोऽभून्महाधनः ।
तत्पुत्र्या राजपुत्र्याश्च, सख्यमासीत् परस्परम् ॥ ६१ ॥ 'हैमीं कङ्कतिकामेकां, दिव्यरत्नविभूषिताम् । रङ्कपुत्रीकरे दृष्ट्वा, याचते स्म नृपात्मजा ।। ६२ ।। तां न दत्ते र्पुना रङ्को, राजा तं याचते बलात् । तेनैव मत्सरेणासौ, म्लेच्छ सैन्यमुपानयत् ॥ ६३ ॥ भग्ना पूर्वलभी' तेन, सञ्जातमसमञ्जसम् । शिलादित्यः क्षयं नीतो, वणिजा स्फीतऋद्धिना ॥ ६४ ॥ ततोऽथाकृष्य वणिजा, प्रक्षिप्ताश्च रणे शकाः । तृष्णया ते स्वयं मनु - है (य) तो व्याधिर्महानयम् ॥ ६५ ॥ विक्रमादित्यभूपाळात, पश्चर्षित्रिक ( ५७३) वत्सरे । जातोऽयं ' वलभी' भङ्गो, ज्ञानिनः प्रथमं ययुः ॥ ६६॥ खवर्त्मना गतान्यर्हद् - विम्बानि विषयान्तरम् । देवताधिष्ठितानां हि, चेष्टा सम्भाविनी तथा ॥ ६७ ॥ एतच्च प्रथमं ज्ञात्वा, मल्लवादी महामुनिः । सहितः परिवारेण, 'पश्चासर' पुरीमगात् ॥ ६८ ॥ 'नागेन्द्र' गच्छसत्केषु, धर्मस्थानेष्वभूत् प्रभुः । श्री' स्तम्भनक 'तीर्थेऽपि, सङ्घस्तस्येशामधात् ॥ ६९ ॥ श्रीमल्लवादिचरितं जिनशासनीयतेजः समुन्नतिपवित्रमिदं निशम्य । भव्याः ! कवित्ववचनादिविचित्रलब्धिप्रभावयत शासनमार्हतं भोः ॥ ७० ॥ इति श्रीमल्लवादिचरित्रम् ॥ ७ ॥
[ ७ श्रीमलवादि
१ ग- --' हैमीकङ्कनीका० : ' । २ घ - 'पुरा' । ३ ग -'अरिणे । ४ ग - 'सृष्णाया ते स्वयं मृत्वा, हतो' । ५ ख - ' प्राप्या' । ६ वसन्त० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org