________________
चतुर्विशतिप्रबन्धे [ श्रीमलवादिइत्युक्त्वाऽम्बो समापृच्छय, बालः कालानलद्युतिः । मल्लनामा मिरिं गत्वा, तेपे तीव्रतरं तपः ॥ ३६॥ आसन्नग्रामभैक्षण, पारणं च चकार सः । दिनैः कतिपयैस्तच्च, जज्ञौ शासनदेवता ॥ ३७ ।। भूत्वा व्योमनि साऽवादीत् , के मिष्टाः सोऽपि बालकः । तच्छ्रुत्वाऽऽख्यत् सानुभवं, वल्ला इति खदत्तदृक् ॥ ३८ ॥ षण्मास्यन्ते पुनः सोचे, खस्था केन सहेत्यथ ? । बालर्षिरप्यभाषिष्ट, समं घृतगुडैः शुभैः ॥ ३९ ॥ अवधारणशक्त्यां तं, योग्यं शासनदेवता । प्रत्यक्षा न्यगदद् वत्स !, भूयाः परमतापहः ॥ ४० ॥ नयचक्रस्य तर्कस्य, पुस्तकं लाहि मानद ! । वाणी सेत्स्यति ते सम्यक्, कुतर्कोरगजाङ्गुली ॥ ४१ ॥ भूमौ मुमोच तं तर्क-पुस्तकं बालको मुनिः । प्रमादः सुलभस्तत्र, वयोलीलाविशेषतः ॥ ४२ ॥ रुष्टा शासनदेव्यूचे, विहिताऽऽशातना त्वया । सान्निध्यं ते विधाताऽस्मि, प्रत्यक्षीभविता न तु ॥ ४३ ॥ तं लब्ध्वा पुस्तकं मल्ल-वादी देदीप्यते स्म सः । शस्त्रं पाशुपतमिव, मध्यमः पाण्डुनन्दनः ॥ ४४ ॥ आगल्य 'वलभी'द्रङ्गं, 'सुराष्ट्रा'राष्ट्रभूषणम् । शिलादित्यं युगप्रान्ता-दित्यद्युतिरुवाच सः ॥ ४५ ॥ बौद्धैर्मुधा जगजग्ध, प्रतिमल्लोऽहमुत्थितः । 'अप्रमादी मल्लवादी, त्वदीयो भगिनीसुतः ॥ ४६॥ शिलादित्यनृपोपान्ते, बौद्धाचार्येण वाग्मिना । वादिवृन्दारकश्चक्रे, तर्कबर्बरमुल्बणम् ॥ ४७ ॥ मल्लवादिनि जल्पाके, 'नयचक्रबलोल्बणे।
२०
२५
१ अर्जुनः। २ क घ-'अप्रवादी', ग-पुस्तके तु 'अप्रमादो' इति पाठः । ग-'नयतर्कवलो.'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org