________________
प्रबन्धः]
प्रबन्धकोशेत्यपराह्वये
वादे जयन्ति यद्यस्मां-स्तदैते सन्तु नीवृति । वयं यदि जयामोऽमू-ऽस्तदा गन्तव्यमेतकैः ॥ २४ ॥ दैवयोगाजितं बौद्धैः, सर्वे श्वेताम्बराः पुनः । विदेशमाशिश्रियिरे, पुनः कालबलार्थिनः ॥ २५ ॥ शिलादित्यनृपो बौद्धान् , प्रपूजयति भक्तितः । 'शत्रुञ्जये' च ऋषभ-स्तैर्बुद्धीकृत्य पूजितः ॥ २६ ॥ इतश्च सा शिलादित्य-भगिनी भर्तृमृत्युतः। विरक्ता व्रतमादत्त, सुस्थिताधार्यसन्निधौ ॥ २७ ॥ अष्टवर्ष निजं बाल-मपि व्रतमजिग्रहत् । सामाचारीमपि प्राज्ञं, किश्चित् किश्चिदजिज्ञपत् ।। २८ ॥ १० एकदा मातरं साध्वीं, सोऽपृच्छदभिमानवान् । अल्पः कथं नः सङ्घोऽयं, प्रागप्यल्पोऽभवत् कथम् ? ॥२९।। साऽप्युदश्रुरभाषिष्ट, वत्स ! किं वच्मि पापिनी ? । श्रीश्वेताम्बरसङ्घोऽभूद् , भूयानपि पुरे पुरे ॥ ३०॥ तादृक्प्रभावनावीर-सूरीन्द्राभावतः परैः । खसात्कृतः शिलादित्यो, भूपालो मातुलस्तव ॥ ३१॥ तीर्थ 'शत्रुञ्जया'यद्, विदितं मोक्षकारणम् । श्वेताम्बराभावतस्तद् , बौद्धैर्भूतैरिवाश्रितम् ॥ ३२ ॥ विदेशवासिनः श्वेता-म्बराः खाण्डितडम्बराः । . क्षिपन्ति निहितौजस्काः, कालं क्वचन केचन ॥ ३३ ॥ २० इति श्रुत्वाऽकुपद् बाल-स्तीथागतभटान् प्रति । प्रतिज्ञां च चकारोच्चैः, प्रावृडम्भोधरध्वनिः ॥ ३४ ॥ नोन्मूलयामि चेद् बौद्धान् , नदीरय इव द्रुमान् । तदा भवामि सर्वज्ञ-ध्वंसपातकभाजनम् ॥ ३५ ॥
. देशे। २ क-'शत्रुञ्जयेऽस्ति'। ३ साधूनामाचारम् । ४ आत्मवशीकृतः । ५ क-ख-'खण्डितडम्बरैः'। ६ बौद्धवीरान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org