SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे [७ श्रीमल्लवादितगिरा खिद्यमानोऽभः, पप्रच्छ जननी निजाम् । किं मातर्नास्ति मे तातो, येन लोकोक्तिरीदृशी ? ॥ १२ ॥ माता जगाद नो वेधि, किं पीडयसि पृच्छया ? ततः खिन्नः स सत्त्वाड्यो, मर्तुमैच्छद् विषादिभिः ॥ १३ ॥ साक्षादागत्य तं भानु-रूचेऽहं वत्स ! ते पिता । पराभवकरो यस्ते, तस्थाहं प्राणहारकः ॥ १४ ॥ इत्युक्त्वा कर्करं सूक्ष्म-मेकं तस्य समार्पयत् । ताड्योऽनेन त्वया द्वेषी, सद्यो मर्तेति चादिशत् ॥ १५ ॥ तेन कर्करशस्त्रेण, बालः स बलवत्तरः । विब्रुवन्तं विब्रुवन्त-मवाल्लेखशालिकम् ॥ १६ ॥ 'वलभी'पुरभूपेन, श्रुतो बालवधः स तु । कुपितस्तं शिशु सद्यो, जनैः स्वान्तिकमानयत् ॥ १७ ।। उक्तश्च रे कथं हंसि, नृशंस ! शिशुकानमून् ? । बालः प्रत्याह न परं, बालान् हन्मि नृपानपि ॥ १८ ॥ इत्थं वदन् महीपाल-महन् कर्करकेण तम् । मृतस्य तस्य साम्राज्ये, स राजाऽजनि विक्रमी ॥ १९ ॥ शिलादित्य इति ख्यातः, 'सुराष्ट्रा'राष्ट्रभास्करः । लेभे सूर्याद वरं वाहं', परचक्रोपमर्दकम् ।। २० ॥ निजां स्वसारं स ददौ, 'भृगुक्षेत्र'महीभुजे । असूत सा सुतं दिव्य-तेजसं दिव्यलक्षणम् ॥ २१॥ 'शत्रुञ्जये' गिरौ चैत्यो-द्धारमारचयच्च सः । श्रेणिकादिश्रावकाणां, श्रेणावात्मानमानयत् ॥ २२ ॥ कदाचिदागतास्तत्र, बौद्धास्तर्कमदोद्धराः । ते शिलादित्यमगदन् , सन्ति श्वेताम्बरा इमे ॥ २३ ॥ १५ - ३ घ..'शाल कम्। १ मुद्गरम् । २ ख-.'सदा द्वेषी सद्यो मयेति'। कख--'बाद । ५ अश्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy