________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्नये
[ ७ ]
॥ अथ श्रीमल्लवादिप्रबन्धः ॥
"
श्रीइन्द्रभूतिमानम्य, प्रभावकशिरोमणेः । श्रीमल्लवादिसुरीन्दो - वरितं कीर्त्यते मया ॥ १ ॥' 'खेटा 'भिधं महास्थान - मस्ति ' गूर्जर ' मण्डले । देवादित्याह यस्तत्र विप्रोऽभूद् वेदपारगः ॥ २ ॥ सुभगाख्या सुता तस्य, विधवा बालकालतः । कस्मादपि गुरोर्मन्त्र, सौरं सा प्राप भक्तिभाक् ॥ ३ ॥ आकृष्टस्तेन मन्त्रेण, भास्करस्तामुपागमत् । तद्भोगलाभादापन - सत्त्वा सा न चिरादभूत् ॥ ४ ॥ वैक्रियेभ्यः सुराङ्गेभ्यो, गर्भो पद्यपि नोद्भवेत् । "तदानीं त्वौदारिकाङ्ग - धातुयोगात् तु सम्भवी ॥ ५ ॥ आपाण्डुगण्डफलकां, ग्लानाङ्गीं वीक्ष्य तां पिता । बभाषे किमिदं वत्से !, निन्द्यमाचरितं त्वया ? ॥ ६ ॥ सा प्राह स्म पितर्नेयं, प्रमादविकृतिर्मम | मन्त्राकृष्टागतोष्णांशु न्यासः पुनरयं बलात् ॥ ७ ॥ इत्युक्तोऽपि विषण्णात्मा, देवादित्यः कुकर्मणा । तां पुत्रीं प्रेषयामास, सभृत्यां 'वलभी' पुरीम् ॥ ८ ॥ कालेन तत्र साऽसूत, पुत्रं पुत्र च सुद्युतम् । तत्रैवोवास सुचिरं, जनकार्पितजीविका ॥ ९ ॥ क्रमेण ववृधाते तौ, पुत्रौ बालार्कतेजसौ । यावदष्टौ व्यतिक्रान्ता, वत्सराः क्षणवत् तयोः ॥ १० ॥ तावदध्यापकस्यान्ते, पठितुं तौ निवेशितौ ।
कलहेऽर्भ निष्पितृक - मूचिरे लेखशालिकाः ॥ ११ ॥ - युग्मम्
Jain Education International
४३
For Private & Personal Use Only
१०
१५
१ अतः परं ६९ तमं पद्यं यावत् छन्दोऽनुष्टुप् ' । २ ख - घ - 'स्थानं, अस्ति' । ३ सूर्य सम्बन्धि । ४ ख -घ - --' तदानीतौ (?) दा०' ।
२०
www.jainelibrary.org