________________
चतुर्विशतिप्रबन्धे [ ६ श्रीवृद्धवादि-सिद्धसेनइति स्तुत्वा स सम्राट् स्वस्थानमयासीत् । वादीन्द्रोऽपि प्रभावनातुष्टेन सधेन मध्ये कृतः । ___ अन्येद्युः सिद्धसेनो बिहर नाङ्कारा' ख्यं 'मालवे'षु नगरं ययौ। तत्र भक्तैः श्रावकैर्विज्ञप्तं सूरये, यथा-भगवन् ! अस्यैव नगरस्यासन्नो ग्राम एक आसीत् । तत्र सुन्दरो नाम राजपुत्रो ग्रामणीः । तस्य द्वे पल्यौ । एका प्रथमां पुत्री प्रासूत, अखिद्यत च । तदैव सपल्यप्यासन्नप्रसवा वर्तते । मा स्मेयं पुत्रं प्रसूय भतुः सविशेषं वल्लभा भूदिति स्त्रीत्वोचितया तुच्छया बुद्धया सूतिकामेकामवोचत
यदा इयं मे सपत्नी प्रसवकाले त्वां दैववशादाह्वयति तदा त्वया १० परस्थानात् प्रथमं सङ्गृहीतं मृतं किञ्चिदपल्यं तत्र सञ्चार्यम् ।
तज्जातकं चेत् पुत्रो भवति तदा स्वयं गृहीत्वा ग्रामाद् दूरे व्युत्स्रष्टव्यम् । इदं हेम गृहाण । इति सूत्रणां चक्रुषी । विधिवशात् तत्र तत तया तथैव कृतम् । राजपुत्रो जातमात्रो ग्रामाद् दूरे क्षिप्तो ही।
स राजपुत्रोऽपि पुण्याधिक इति तत्कुलदेवतया धेनुरूपेण दुग्धं १५ दत्त्वा पालयन्त्याऽष्टवर्षदेशीयः कृतः । अथात्रैव 'ॐकार'नगरे शिवभवनाधिकारिणा भरटकेन दृष्टः, आलापितः, स्वां दीक्षा ग्राहितः।
अन्यदा 'क(?का)न्यकुब्ज'देशाधिपतिर्नरेन्द्रो जात्यन्धो दिग्विजयकार्येण प्रत्यासन्नः समावासितः । रात्रौ लघुभरटकस्य शिवादेशः
सञ्जातः-त्वया 'क(?का)न्यकुब्जे'शाय शेषा देया । तयाऽसौ सज्जा२० क्षो भावी। तद् वाक्यं लघुर्वृहद्गुरवे समाख्याय तदाज्ञया शेषामादाय
स्कन्धावारमध्यमेत्य राजामात्यानुवाच- भो भो स्वनाथमस्मत्सम्मुखमानयध्वं यथा सद्यः कमलदलललितं स्वविषयग्रहणक्षमाक्षं कुर्महे । ततोऽमाल्यनुलो राजा तत्रायातः। ऋषिदत्तां शेषामादायाो
निवेश्य सज्जाक्षो जातः। प्रीतो भक्त्या ग्रामशतानि शासनेऽदात् । २५ अत्रैव च 'ॐकारे' इममुत्तुङ्गं प्रासादमचीकरत् । वयमिह पुरे वसामः।
जैनः प्रासादः कारयितुं न लभ्यते । मिथ्यादृशो बलिनः । तस्मात्
ग-भाजपुत्राग्रणी'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org