________________
प्रबन्धः] प्रबन्धकोशेत्यपराह्वये मापनया 'सार्भया क्षुधितया दर्भसू वेधक्षरत्तद्रुधिरधारागन्धलुब्धागतया भक्षितः सद्भावनाजर्जरितपापकर्मा 'नलिनीगुरुम'माप । प्रातस्तन्माता सस्नुषा गुरुमुखादवगतपुत्रवृत्तान्ता तच्छ्मशानमागत्य विललाप विविधं विविधम् । पुनर्गृहभागता । एकां सगी वधूं गृहे मुक्त्वा एकत्रिंशता वधूभिः सह संयममादाय दिवं लेभे । सगर्भस्थित- ५ वधूकाजातपुत्रेण 'स्फीतयौवनेनायं प्रासादः कारितः । मम पितुमहाकालोऽत्राभूदिति 'महाकाल'नाम दत्तम् । श्रीपार्श्वबिम्ब मध्ये स्थापितम् । कत्यप्यहानि “लोके पूजितम् । अवसरे द्विजैस्तदन्तरितं कृत्वा मृडलिङ्गमिदं स्थापितम् । अधुना मत्कृतस्तुतितुष्टः श्रीपार्श्वनाथः प्रादुरासीत् । मत्प्रेरितशासनदेवताबलात् तु मृड- १० लिङ्गं विदधे । सत्यासत्ययोरन्तरं पश्य । तच्छ्वणान्नृपः शासने ग्रामशतान्यदत्त देवाय । उपगुरु ससम्यक्त्वां द्वादश(१)व्रतीमुपादत्त। अक्षाधत वादीन्द्रम् --
अहयो बहवः सन्ति, भेकभक्षणदक्षिणाः । ___ एक एव स शेषो हि, धरित्रीधरणक्षमः ॥ १॥ १५ तथा त्वम् । अहो कवित्वशक्तिस्ते !।
पदं सपदि कस्य न स्फुरति शर्करापाकिम ? ___रसालरससेकिमं भणितिवैभवं कस्प न ?।। तदेतदुभयं किमप्यमृतनिझरोद्गारिमै___ स्तरङ्गयति यो रसैः स पुनरेफ एव कचित् ॥१॥ २० न नाम्ना 'नो वृत्त्या परिचयवशाच्छन्दसि न वा ___ न शब्दव्युत्पत्त्या निभृतमुपदेशान्न च गुरोः । अपि त्वेताः स्वैरं जगति सुकवीनां मधुमुचो विपच्यन्ते वाचः सुकृतपरिणामेन महता ॥२॥र
१ वत्ससहितया । २ क-'स्फीतिवधूकायौ.'। ग--'श्रीपार्श्वनाथविम्। 7 क-'लोकेन' । ५ शिव० । ६ ग--'तत्पराः'। ७ ग-'श्रीशेषो हि धरणीधरल.' ८ अषुप्। पृथ्वी । १० ख-घ--'मा वृत्त्वा' । ११ शिखरिणी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org