SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [ ६ श्रीवृद्धवादि-सिद्धसेन. ताहक(शं) चमत्कारमनालोक्य पश्चात् श्रीपार्श्वनाथद्वात्रिंशिकामभिकर्तुं कल्याणमन्दिरस्तव[वं चक्रे प्रथम एव श्लोके प्रासादस्थितात् शिखिशिखाग्रादिव लिङ्गाद् धूमवर्तिरुदतिष्ठत् । ततो जनैवचनमिदमूचे-अष्टविधेशाधीशः कालाग्निरुद्रोऽयं भगवस्तृितीयनेत्रानलेन भिक्षु भस्मसात्करिष्यति । ततस्तडित्तेज इव सतंडात्कार प्रथमं ज्योतिर्निर्गतम् । ततः श्रीपार्श्वनाथविम्बं प्रकटीबभूव । तद् वादिना विविधस्तुतिभिः स्तुतं क्षमितं च । राजा विक्रमादित्यः पृच्छति-भगवन् ! किमिदमदृष्टपूर्व दृश्यते ? । कोऽयं नवीनो देवः प्रादुरभूत् ! । अथ सिद्धसेनः प्रोवाच-राजन् ! पूर्वमस्या१० मेवा'ऽवन्त्यां' श्रेष्ठिनीभद्रासूनुत्रिंशत्पनीयौवनपरिमलसर्वस्वग्राही अवन्तीसुकुमाल इति ख्यातः श्रेष्ठयासीत् । स शालिभद्र इव कमपि गृहव्यापार नाकार्षीत् , किन्तु मातैव सर्वामपि गृहतप्तिमकृत । एकदा दशपूर्वधर आर्यसुहस्त्याख्यो ‘मौर्यवंशमुकुट सम्प्रतिनृपगुरुः सगच्छो विहर 'नवन्ती'मागत्य भद्राऽनुमत्या १५ गृहैकदेशेऽस्थात् । रात्रौ ते 'नलिनीगुल्मा'ख्यस्य स्वर्विमानस्य विचारं गुणयन्ति । तपोधनजने विश्रान्ते सति तं विचार शुण्वन् सान्द्रचन्द्रातपायां निशि स्वैरं पद्भ्यां भ्रमनवन्तीसुकुमालस्तत्रायातः सम्यगोषीत् । आगत्य गुरून् जगौ-भगवन् ! किमेतद् गुण्यते । आर्यैरुक्तम्-वत्स ! 'नलिनीगुल्म'विमान२० विचारः । अवन्तीसुकुमालः प्राह स्म-ईदृशमेवेदं प्रेत्य मयाऽ नुभूतम् । इदं केनोपायेन लभ्यते ? । आर्भणितम्-चारित्रेण । अवन्तीसुकुमालोऽप्याविभाताद् गृहीत नलिनीगुल्म'विमानग्रहणप्रतिज्ञः स्वयं कृतलोचः पश्चाद् गुरुभिरपि दत्तसामायिकः 'कन्थारकुंडनाख्यं श्मशानमेत्य कायोत्सर्गी भवान्तरभार्यया शृगालीत्व १ घ-' तबकारं'। २ ग-प्रतौ 'शृण्वन्' इत्यधिकः पाठः। 'नलिनीपुल्मविचार:'। ४ ग- 'प्याविभावात्'। ५ ख-सुङ्गा०' । ३ग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy