________________
प्रबन्धः] प्रबन्धकोशेत्यपराह्वये पदार्थः । ततो वादी तां गुरुशिक्षा मूर्ध्नि धृत्वा राजानमापृच्छ्य वृद्धवादिना सह निबिडचारित्रधरो विजहार । अपरापरगुरुभ्यः 'पूर्व'गतश्रुतानि लेभे । वृद्धवादी द्यां गतः । ___ एकदा सिद्धसेनः सङ्घ मेलयित्वाऽऽह स्म-सकलानप्यागमानहं
संस्कृतमयान् करोमि, यदि आदिशथ । ततः सङ्घो वदति स्म- ५ किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थङ्करा गणधरा वा यदर्धमागधेनागमानकृषत ? । तदेवं जल्पतस्तव महत् प्रायश्चित्तमापन्नम् । किमेतत् तवाग्रे कथ्यते ? । स्वयमेव जानन्नसि । ततो विमृश्याभिदधेऽसौ-सङ्घोऽवधारयतु, अहमाश्रितमौनो द्वादशवार्षिकं 'पाराञ्चिकं' नाम प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादिलिङ्गः १० प्रकटितावधूतरूपश्चरिष्याम्युपयुक्तः । एवमुक्त्वा गच्छं मुक्त्वा ग्रामनगरादिषु पर्यटन् द्वादशवर्षे श्रीम'दुज्जयिन्यां' महाकालप्रासादे 'शेफालिका'कुसुमरञ्जिताम्बरालङ्कृतशरीरः समागत्यासाञ्चक्रे । ततो देवं कथं न नेमस्यसीति लोकैर्जल्प्यमानोऽपि नाजल्पत् । एवं च जनपरम्परया श्रुत्वा श्रीविक्रमादित्यदेवः १५ समागत्य जल्पयाञ्चकार-- क्षीरलिलिक्षो ! भिक्षो ! किमिति त्वया देवो न वन्द्यते ? । ततस्तु राजानं प्रतीदमवादि वादिनामया नमस्कृते लिङ्गभेदो भवतामप्रीतये भविष्यति । राज्ञोचेभवतु, क्रियतां नमस्कारः । तेनोक्तम्- श्रूयतां तर्हि । पद्मासनेन भूत्वा द्वात्रिंशद्वात्रिंशिकाभिर्देवं स्तोतुमुपचक्रमे । तथाहि- २० "स्वयम्भुवं भूतसहस्रनेत्र-मनेकमेकाक्षरभावलिङ्गम् ।
अव्यक्तमव्याहतविश्वलोक--मनादिमध्यान्तमपुण्यपापम् ॥१॥" इत्यादि 'श्रीवीरद्वात्रिंशद्वात्रिंशिका कृता । परं तस्मात्
१ जैनानां द्वादशाङ्गत एको विभागः संस्कृतप्रायः । २ 'मेळवीने' इति भाषायाम् । ३ ग घ संस्कृतान्' । ४ ख-'मागधिना' । ५ ग-'नमसीति' । ६ क-ख-घ-'तत. स्त्विदमवादि । ७ उपजातिः। ८ ग-प्रतौ ' श्रीवीर ' इत्यारभ्य स्तवं चके' एतत्पर्यन्तमधिकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org