________________
प्रबन्धः]
प्रबन्धकोशेत्यपराह्वये
तत् कुरु येन इतोऽधिकं तुङ्ग रम्यं चैत्यं निष्पद्यते । बली त्वमेवेति। तद्वचनं श्रुत्वा वादी 'अवन्ती'मागत्य चतुःश्लोकी हस्ते कृत्वा विक्रमादित्यद्वारमेत्य द्वास्थेनोपराजं श्लोकमचीकथन् । स तेन काथितः; यथा
दिदृक्षुर्भिक्षुरायातो, द्वारि तिष्ठति वारितः ।
हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ? ॥ १॥ तं श्लोकं श्रुत्वा विक्रमादित्येन प्रतिश्लोकः कथापितः, यथा
दत्तानि दश लक्षाणि, शासनानि चतुर्दश ।
हस्तन्यस्तचतुःश्लोक, उतागच्छतु गच्छतु ॥ २॥ वादिना तं श्लोकं श्रुत्वा द्वास्थद्वारण भाणितं राजे- दर्शनमेव १० भिक्षुरीहते, नार्थम् । ततो राज्ञा स्वदृष्ठौ आहूतः । उपलक्षितो भाषितश्च-भगवन् ! किमिति चिराद् दृश्यध्वे ? । आचार्यैरुक्तम्धर्मकार्यवशाच्चिरादायातः । श्लोकचतुष्टयं शृणु । राज्ञि शृण्वति पठितं तद्, यथा
अपूर्वेयं धनुर्विद्या, भवता शिक्षिता कुतः । मार्गणौधः समभ्येति, गुणो याति दिगन्तरम् ॥ १ ॥ 'सरस्वती स्थिता वक्त्रे, लक्ष्मीः करसरोरुहे। . कीर्तिः किं कुपिता राजन् !, येन देशान्तरं गता ॥२॥ कीर्तिस्ते जातजाड्येव, चतुरम्भोधिमज्जनात् । आतपाय धरानाथ !, गता मार्तण्डमण्डलम् ॥ ३॥ २० सर्वदा सर्वदोऽसीति, मिथ्या संस्तूयसे जनैः ।
नारयो लेभिरे पृष्ठं, न वक्षः परयोषितः ॥ ४ ॥ श्रुत्वा तुष्टो विक्रमश्चतुरो गजान् यथासङ्ख्यं वसन-सुगन्धद्रव्य-हेमनाणक-हारादिपूर्णान् आनाग्य सूरिममाणीत्-इमे गृह्यन्ताम् ।
, ग-द्वास्थनोपचारं'। २ क-ख-----यातस्तिष्ठति द्वारि वारितः । ३ अनुष्टुप् । ४ ख-घ-'राज्ञो दर्शन०। ५.६ अनुष्टुप् । ७.८ अनुष्टुप् । चर्षिशति०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org