________________
प्रबन्धः
प्रबन्धकोशेत्यपरालये जह जह पएसिणिं जाणुयंमि पालित्तओ भमाडेइ । तह तह से सिरवियणा पणस्सइ मुरुंडरायस्स ॥ १ ॥
प्रीतो राजा । संवृत्ता उत्सवाः । पादलिप्तसूरीणां यशसा पवित्रितानि सप्त भुवनानि । राजा स्तौति
चेतः सार्द्रतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्ज्वला __ शक्तिः क्षान्तिकला श्रुतं हृतमदं श्रीर्दीनदैन्यापहा । रूपं शीलयुतं मतिः श्रितनया स्वामित्वमुत्सेकिता
निर्मुक्तं प्रकटान्यहो नव सुधाकुण्डान्यमून्युत्तमे ॥ १ ॥ एकदा सभायां नृपेणोक्तम्-राजकुले महान् विनयः । आचार्यरभिहितम्-गुरुकुले महीयान् विनयः । तत आचार्याः प्राहु:- १० यो वः परमभक्तो राजपुत्रोऽस्ति स आहूयताम् , इदं च तस्मै कथ्यताम् यात्वा विलोकय 'गङ्गा' किं पूर्ववाहिनी किंवा पश्चिमवाहिनी इति । आहूतो राजपुत्रः, प्रहितश्च विलोकनाय, यत्र तत्र भ्रमित्वा समागतः, भाषितो भूपालेन-विलोकिता 'गङ्गा' किं पूर्ववाहिनी पश्चिमवाहिनी वा ?" । अथ राजपुत्रः प्रचल्यौ-किमत्र १५ "विलोकनीयम् ? बाला अपि विदन्ति 'गङ्गा' पूर्ववाहिनी, गत्वा च विलोकिता मया, पूर्ववाहिन्येवास्ते । राजा श्रुत्वाऽस्थात् । सूरिभिः साधुः स्वस्तस्मै कर्मणे प्रहितस्तत्र गतः । दण्डकं प्रवाह्य व्यलोकत पूर्ववाहिनी सुरवाहिनी । उपसूरि समागतः, अभाषत-अहं 'गङ्गा' पूर्ववाहिनीं पूर्वमश्रौषम् , गत्वा पश्यंश्च तथैवाज्ञासिषम् , तत्त्वं तु २०
१छाया- यथा यथा प्रदेशिनी जानुनि पादलिप्तको भ्रामयति ।
तथा तथा तस्य शिरोवेदना प्रणश्यति मुरुण्डराजस्य ॥ २ ग-'मुरण्ड' । ३ आर्या । भूर्लोक-भुवर्लोक-स्वर्लोक-महोक-अनोंकतपोक-सत्यलोकेति, सप्तमो ब्रह्मलोको वा । ५ ग-'युतं'। ६ मनोहरा । ७ शार्दूल । ८ क-ख-'महान् विनमः। ९ग-घ-'गत्वा' । १. ग-'इति वा'। ११ घविलोक्यम्'। ११ क-ख-'प्रव्रज्य' । १३ ग-घ-'तु सद्गरवो'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org