SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [५ श्रीपादलिताचार्यस्वयं सद्गुरवो विदन्ति । एतच्च राजपुत्र-यत्योश्चरितं राज-सूर्योः प्रच्छन्नचरैरुक्तम् । राजा मेने एव-महीयान् गुरुकुले विनयः । ततः पठयते निवपुच्छिण गुरुणा, भाणओ 'गंगा' कओमुही वहइ ? । संपाइयवं सीसो, जह तह सव्वत्थ कायव्वं ॥१॥ 'पाटलिपुत्रा'दथ सूरीन्द्रो 'लाटान्' गतः । तत्रैकस्मिन् पुरे बालैः सह क्रीडति । मुनयो गोचरचर्यार्थ गताः । तावता श्रावकाः प्रवन्दनार्थमायाताः । आकारं संवृत्योपविष्टः प्रभुः । श्राद्धेषु गतेषु पुनरपवरकमध्यं गत्वा खेलप्ति । तावता केऽपि वादिनः समायाताः। १० तैर्विजनं दृष्ट्वा 'कूकुडूकू' इति शब्दः प्रोकः । सूरीन्द्रेण तु 'म्याऊं' इति बिडालशब्दः कृतः । ततो दर्शनं दत्तम् । वादिनः पादयोः पेतुः प्रभोः । अहो प्रत्युत्पन्नमतित्वं ते, चिरं जय बालभारति ! । तत आरब्धा प्रभुणा तैः सह गोष्ठी । तेष्वेकेन पृष्टम्१५ पालित्तय ! कहसु फुडं, सयलं महिमंडलं भेमंतेण । दिहं सुयं च कत्थ वि, चंदणरससीयलो अग्गी ? ॥ १॥" प्रभुणाऽभाणि-- अयसाभिओगसंदू-मियस्स पुरिसस्स सुद्धहिययस्स । होइ वहंतस्स दुहं, चंदणरससीयलो अग्गी ॥१॥ १ ग-घ-'एतच्च' एतदधिकम् । २ छाया - नृपपृष्टेन गुरुणा भणितो 'गङ्गा' किंमुखी वहति ? । सम्पादितवाञ् शिध्यो यथा तथा सर्वत्र कर्तव्यम् ॥ 3 आर्या । ४ घ-पाडलिपुत्रा०'। ५ ग-'कृतः'। ६ ख-घ-'पदयोः'। ७ छाया-पादलिप्तक ! कथय स्फुटं सकलं महीमण्डलं भ्रमता । दृष्टं श्रुतं च कुत्रापि चन्दनरसशीतलोऽमिः ॥ ८ क-कया। ९ क-'भमंतेणं'। १० क-घ-'कत्थई' । ११ आर्या । २ छाया-अयशोऽभियोगसन्दूनस्य पुरुषस्य शुद्धहृदयस्य । भवति वहतो दुःखं चन्दनरसशीतलोऽभिः ॥ १३ आर्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy