________________
१०
चतुर्विशतिप्रबन्धे [५ श्रीपादलिप्ताचार्थएकदा गुरुणा जलार्थ प्रस्थापितो विहृल्यागत आलोचयति'अब तंबच्छीए, अपुप्फियं पुप्फदंतपंतीए।
नवसालिकंजियं नव-बहुइ कुडएण मे दिन्नं ॥ १॥ इति गाथया गुरुभिर्भणितम्---पलित्तओ, शृङ्गारगर्भभणितिश्रवणात् । किल त्वं विनेयक! रागाग्निना प्रदीप्त इति भावः । नागेन्द्रेणाचचक्षे-भगवन् ! मात्रया एकया प्रसादः क्रियताम् , यथा 'पालित्तओ' इति रूपं भवति । अत्र को भावः ? गगनगमनोपायभूतां पादलेपविद्यां मे दत्त येनाहं पादलिप्तक इत्यभिधीये । ततो गुरुभिः पादलेपविद्या दत्ता । तद्वशात् खे भ्रमति । दशवर्षदेशीयः सन् सूरिपदे स्थापितः । बहुशिष्यपरिकरितो विहरति । नित्यं 'शत्रुञ्जयो'-'जयन्ता दिपेञ्चतीर्थी वन्दित्वाऽरसविरसमश्नाति । तपस्तप्यते।
यद् दूरं यद् दुराराधं, यच्च दूरे प्रतिष्ठितम् ।
तत् सर्व तपसा साध्यं, तपो हि दुरतिक्रमम् ॥ १॥" १५ ततः सर्वसिद्धयः।
एकदा 'पाटलीपुत्रं' गताः । तत्र मुरुण्डो नाम खण्डितचण्डारिमुण्डो राजा । तस्य षण्मासान् यावच्छिरोऽर्तिरुत्पन्नाऽऽस्ते। मन्त्रतन्त्रौषधैर्न निवृत्ता। "विशेषविदुरान् सूरीनागतान् श्रुत्वा राज्ञा
मन्त्रिणः प्रहिताः प्रोचुः-भगवन् ! राजराजेन्द्रस्य शिरोऽर्तिनिवर्त्य२० ताम् । कीर्ति-धौं सञ्चीयेताम् । ततः सूरीन्द्रो राजकुलं गत्वा
मन्त्रशक्ल्या क्षणमात्रेण शिरोऽतिमपहरति स्म । ततोऽद्यापि पठ्यते---
१ छाया-आनं ताम्राक्ष्याऽपुष्पितं पुष्पदन्तपङ्क्त्या ।
नवशालिकाम्जिकं नववध्वा कुडकेन मे दत्तम् ॥ २ क- सालिकजिअं'। आर्या । ग-'भ्रमति'। ५ शत्रुनय-गिरिनारा-बुंद. सम्मेतशिखरा-ऽष्टापदेति तीर्थपञ्चकम् । ६ क-ख-व्यवस्थितम्'। ७ अनुष्टप। ८ घ-'पाडलीपुत्रं'। ९ ग- 'मुरण्डो १० प्रज्ञान् । ११ क- राजेन्द्रशिरोतिः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org