________________
प्रबन्धः
प्रबन्धकोशेत्यपराह्वये
[५] ॥ अथ पादलिप्साचार्यप्रबन्धः॥ 'कौशला' नाम नगरी, तत्र विजयवर्मा राजा नयविक्रमसागरः। फुल्लनामा श्रेष्ठी जैनः प्राज्ञो दानभटः। तस्य प्रतिमाणा नाम पत्नी रूपशीलसत्यनिधिवसुधा । सा निष्पुत्रत्वेन खिद्यते । केनाप्युक्तम्- ५ वैरोट्यां देवीमाराधय । तपोनियमसंयमैस्तयाऽऽराधिता सा प्रत्यक्षीबभूव, अभिदधौ च--वत्से ! किमर्थ स्मृताऽहम् । श्रेष्ठिन्योक्तम्पुत्रार्थम् । वैरोख्ययोक्तम्-वत्से ! शृणु, 'विद्याधर'वंशे श्रीकालिकाचार्योऽभूत् । तस्य विद्याधरो' नाम गच्छः। तत्र आर्यनागहस्ती नाम सूरिरास्ते । स सम्प्रति इमां नगरीमागतोऽस्ति क्रियाज्ञानार्णवः, १० तस्य पादोदकं पिब । तत्र श्रेष्ठिनी भावनाभरभरिता गता । करस्थगुरुपदप्रक्षालनजलपात्रः 'शिष्यकः सम्मुखमागच्छन् दृष्टः । श्रेष्ठिन्या पृष्टम् -तपोधन ! किमेतत् ? । शिष्यकेणोक्तम्---गुरूणां पादोदकम् । तया पीतम् ।
अथ गुरवोऽवन्दिष(ष्य)त । गुरवः प्राहुः यन्मत्तो दशकरान्तरस्थ- १५ या त्वयाऽम्भः पीतं तत् ते पुत्रस्त्वत्तो दशयोजनान्तरितः स्थाता । ततः पश्चादन्ये नव पुत्रा भवितारः सारश्रियः । सा चम्पककुसुममकरन्दपानमत्तमधुपध्वनिकोमलया गिरा बभाषे----आयः पुत्रो युष्मभ्यं दातव्यो मया । इत्युक्त्वा निजसदनमगमत् । भत्रे गुरूक्तं स्वोक्तं चाकथयत् । तुष्टः सः । श्रेष्ठिनी काले नागेन्द्रस्वप्नसप्रभावं २० पुत्रं प्रासूत । माङ्गल्योत्सवाः प्रसरन्ति स्म । गुरुसत्कः सन् वर्धते । नागेन्द्र इति नाम तस्य । शरीरावयवैर्गुणैश्च सकललोकस्पृहणीयैर्ववृधे । गुरुभिरागल्याष्टमे वर्षे दीक्षितः । मण्डनाभिधस्य मुनेः पार्श्वे पाठितः । बालोऽपि सर्वविद्यो जातः ।
१ क-शिष्यः कः' । २ ग-स्थाता । पश्चाद'। ३ 'त्यार पछी' इति भाषायाम् । ४ ग-"चम्पकमकरन्द०'। ५ क-'मलोत्सवाः। ६ ग-'कमनीयैः' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org