SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ २२ चतुर्विंशतिप्रबन्धे [ ४ श्रीभार्यखपटाचार्य दृष्ट्वा तो राजा चाटूनि करोति स्म, पुनर्नैवमबिनयमाचरिष्यामि इति उवाच । तदा महेन्द्रेण पठितम् - कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यंघ्रिणा ? कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति ! | कः संनह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये ? यः श्वेताम्बरशासनस्य कुरुते वन्यस्य निन्दामिमाम् ॥ १ ॥ विशेषतो भीतो नृपो दर्शन ( ? )स्य पादेवलगीत् । तदा महेन्द्रेण धवला करवीरकम्बा दिग्द्वयेऽपि वाहिता । पुनर्विप्राणां मस्तकाः स्वस्थानेषु ससञ्जः । प्रतिबोधितो राजा विप्रलोकश्च । एवं प्रभा१० वनाऽभूत् । भुवनोऽपि बौद्धान् परिहत्य स्वगुरूणां मीलितः । तेन स्वगुरवः क्षामिताः । तैर्गुरुभिस्तस्य भुवनस्य बहुमानं दत्तम् । पश्चाद् भुवनो गुणवान्, विनयवान्, चारित्रवान् श्रुतवान्, जातः । तत आर्यखपटा : सूरिपदं भुवनाय दत्त्वाऽनशनेन द्यामारुरुहुः । १५ जीवितव्यं च मृत्युं च, माराधयन्ति ये । त एव पुरुषाः शेषः, पशुरेष जनः पुनः ॥ १ ॥ इति महाप्रभावक श्री आर्यखपटाचार्यप्रबन्धः ॥ ४ ॥ १ ग - 'महेन्द्रेणोक्तम् । २ शार्दूल० । ३ क - घ- प्रतयोः 'भुवनोऽपि ' इत आरभ्य 'जातः ' एतत्पर्यन्तं नास्ति । ४ क - 'खपुटः । ५ अनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy