________________
प्रबन्धः]
.
प्रबन्धकोशेत्यपराखये
ततः सधेन हक्कितः । क्रुद्घो गत्वा बौद्धानां मिलितः । तदाचार्य इव जातः । बौद्धानां पात्राणि मठात् खेन गृहमेधिनां गृहेषु नयति । ततो भक्तपूर्णानि तानि खेनैव मठमायान्ति । तथा दृष्ट्वा लोको बौद्धभक्तो भवन्नास्ते । यदुचितं तत् कुरुध्वम् । तदवधार्यायखपटदेवा 'भृगु'पुरमगुः । प्रच्छन्नाः स्थिताः । बौद्धानां पात्राणि अन्न- ५ पूर्णान्यागच्छन्ति । शिलाविकुर्वणेन खे बभञ्जुः । पतन्ति पात्रेभ्यः शालि-मण्डक-मोद काद्यंशाश्च लोकस्य मस्तकेषु । 'चेल्लकः सूरीणां समागमनं सम्भाव्य भीतो नष्टो वराकः । सूरयः ससङ्घा बौद्धानां प्रासादमगमन् । बुद्ध उपलमूर्तिः सम्मुख उत्थितः जय जय महर्षिकुलशेखर ! इत्यादि स्तुतीरतनिष्ट । पुनर्जिनपतिशासनस्य १० प्रभावः प्रोदिदीपे । आर्यखपटा अन्यत्र विजन्हुः ।
इतश्च 'पाटलीपुत्र'पत्तने दाहडो नाम नृपो विप्रभक्तो जैनयतीनाह्वयत् , अवोचच्च-विप्रान् नमस्कुरुत, इति । जैनैरुक्तम्-- राजन् ! नेदं युक्तम् , गृहिणोऽमी, वयं च यतयो वन्द्याः । दाहडेनोक्तम्---न वन्दचे चेच्छिरांसि वः कृन्तामि । जैन- १५ यतिभिः सप्तदिनी याचिता। राज्ञा दत्ता । दैवादार्यखंपटशिष्य उपाध्यायो महेन्द्रनामा 'भृगुकच्छा'त् तत्रायातः । तदने यतिभिः स्वदुःखं कथितम् । तेन सन्धीरितास्ते । प्रातः करवीरकम्बे द्वे रक्तश्वेते लात्वा महेन्द्र उपदाहडमगात् । तदाऽष्टमदिनप्रत्यूषं वर्तते । राज्ञोक्तम्-श्वेताम्बरा विप्राणामायाहूयन्ताम् । आहूताः, अग्रे २० उस्तिस्थुः । महेन्द्रेण रक्तां कम्बां वाहयित्वा राजा भाषितःकिं प्रथममितो नमामः ? किंवा इतो नमाम इति । एतद्भणनसमकालमेव विप्राणां मस्तकास्त्रुटित्वा ताडफलवद् भूमौ पेतुः । तद्
१ ग-'क्रुद्ध्वा ' । २ घ-'बौद्धानां भक्तो' । ३ क-'खपुट०' । ४ 'मांडा' इति भाषायाम् । ५ ख-घ-'चेलकः' । ६ ग-प्रदिदीपे'। ७ क-खपुटा०। ८ कख-'पाटलीपुरे'। ९ क-'खपुट०।१० क-तालफल०' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org