________________
चतुर्विंशतिप्रबन्धे
[ ४ श्रीभार्यखपटाचार्य
"
?
ते घाताः शिरीषकोषादपि कोमलेष्वन्तः पुरीणामङ्गेषु 'लेगुः । उच्छलितोऽन्तःपुरे स्त्रीणां कोलाहलः-—हा नाथ ! रक्ष रक्ष, हा हन्यामहे केनाप्यदृष्टेन कथं जीविष्यामः ? | राजा सूरिशक्तिचमत्कृतमनाः सूरीणां पैदोलनः । प्रस मम सपरिजनस्य जीवितभिक्षां देहि, कृपालुस्त्वम् इत्याद्युवाच । यक्षस्तु स्वस्थानादुत्थायोपसूरि समागतो विनीतः पादसंवाहनां कुरुते । मम कीटिकामात्रस्योपरि वः कः कटकारम्भ इति ब्रूते । मिलितो लोकः । आर्यखपटैर्यक्ष ऊचे रे अधम ! अस्मध्यान् पराबुभूषति । पराभव, यद्यस्ति प्राभवम् । १० यक्षः प्राह स्म हनूमति रक्षति सति शाकिन्यः पात्राणि कथं ग्रसन्ते ? | तेव भृत्योऽस्मि । मा मां पीडय । तव सङ्घ बान्धववद् रक्षिताऽस्मि । राजादयः सर्वे चमत्कृताः सूरिभक्ता बभूवुः । सूरयः प्रासादान्निर्गत्य यदा बहिर्गतास्तदा यक्षः पाषाणमूर्तिः सहायातः । द्वे दृषदौ द्वे दार्षदकुण्डिके, सूक्ष्मयक्षाः सहागुः । १५ नगरप्राकारद्वारायातेन सूरीन्द्रेण यक्षाद्या विसृष्टाः स्वस्थानमगुः । कुण्डिके तु पुरद्वारे सूरिणा स्थापिते, लोके ख्यातिनिमित्तम् । राजा प्रबोध्य सद्यः श्रावकः कृतः स्वसौधं गतः । प्रभावनानर्तकीरङ्गाचार्य इति स सूरीन्द्रस्तत्र चातुर्वण्र्येन वर्णयामासे । तदैव 'भृगु' पुरात् साधू द्वावागतौ, ताभ्यां प्रभवः प्रोक्ताः - भगवन् ! २० 'भृगु' पुरादत्र गच्छद्भिर्भवद्भियी कैपरिका गूढमधारि सा भवतां भागिनेयेनावाच्यत । वाचयता आकृष्टिलब्धिर्लब्धा । तद्वशादिभ्यानां गृहेषु निष्पन्नां रसवतीमाकृष्यानीय भुङ्क्ते स्म । तथा कुर्वन् गच्छेन ज्ञातो निषिद्धो न निवर्तते, रसनेन्द्रियपरवशत्वात्
२०
-----
Jain Education International
१ ‘लाग्या' इति भाषायाम् । २ 'उछळयो' इति भाषायाम् ३ ग - 'पादौ लग्भः' ४ ग द्यूान् ' । ५ क - प्रतौ ' तव ' इत्यारभ्य ' पीडय' एतत्पर्यन्तं न दृश्यते ६ घ - 'पुरप्राकार०' । ७ घ - 'कमलिका ( ? )' । ८ क - ख ग 'क्षुल्लके न केनावाच्यत'
-
For Private & Personal Use Only
www.jainelibrary.org