________________
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये भिर्कोत्रितः-जयः श्वेताम्बरशासनस्य । वर्तन्ते चैत्येषु महोत्सवाः । बौद्धास्तु 'हिमहतपद्मवनाभा जाताः । तं बौद्धापमानं श्रुत्वा बौद्धाचार्यो 'गुडशस्त्र'पुराद् वृद्धकराख्यो महातार्किको 'भृगुपुर' मगात् । राजानमवोचत्--श्वेताम्बरैः संह मां वादं कारापय । राज्ञा भुवनप्रज्ञास्फूर्तिज्ञेन वारितोऽपिं नास्थात् । ५ 'वादेऽजित एव सोऽपि भुवनेन जितः । न खलु यमो भूतानां ध्रीयते(?)। जित्वा सभ्याः प्रभाषिताः-- भो भो शृणुतयदृको दृषदो यदुष्णकिरणो ध्वान्तस्य यच्छीतगुः
'शेफालीकुसुमोत्करस्य च देशाकर्षः पतङ्गस्य यत् । अद्रेर्यत् कुलिशः प्रचण्डपवनो मेघस्य यद् यत् तरोः
पर्शर्यत् करिणो हरिः प्रकुरुते तद् वादिनोऽसावहम् ॥१॥" संभ्याश्चमत्कृता उज्जुधुषुः --- जयति धवलाम्बरशासनम् । वृद्धकरः पुनरपमानाशनितप्तोऽनशनं कृत्वा 'गुडशस्त्र' पुरे वृद्धकराख्यो यक्ष उत्पन्नः प्राग्वैरेण जैनानुपद्रवति व्याधिवर्द्धन-भापनधनहरणादिप्रकारैः । 'गुडशस्त्र'पुरसङ्घन आर्यखेपटास्तद् विज्ञप्ता- १५ स्तत्र गताः । तत्र यक्षायतनं प्रविश्य यक्षस्य कर्णयोरुपानही बबन्धुः, वक्षसि पादौ ददुः। लोको मिलितः । राजा तत्रत्यस्तत्रागतः । राज्ञि तत्रागते आचार्याः श्वेतवस्त्रेण खं सर्वमङ्गमावृत्य तस्थुः । राजा यत्र यत्रोद्घाटयति तत्र तत्र "स्फिचावेव दृश्यते । ततः क्रुद्धो राजा घातान् दापयति बँपटाचार्यस्याङ्गे। २०
१३.--'हिमवत्पद्मनाभा'। २ ग-'सह वादं'। ३ घ--' वादं वादं कारय'। ४ क-ख--' स्फूर्तितेन'। ५ घ-'वादोदित एव' । ६ क-ख-'घ्रायति'। ७ चन्द्रः । ८ लताविशेषगतपुष्पसमुदायस्य । ९ दीपकवतेराकर्षणम् । १० वज्रम् । ११ कुठारः १२ गजस्य । १३ सिंहः । १४ शार्दूल०। १५ ख--'सभ्याश्च चम० ' । १६ ख'करोऽपमान'०'। १७ क-'खपुटा० । १८ ख-तत्र च यक्षा०' ।१९ 'उघाडे छे' इति भाषा याम् । २० ग--'स्फिजावेव' । २१ जघनौ । २२ क-'खपुटा०'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org