________________
१८
१०
क्वापि गच्छेऽनेकातिशयलब्धिसम्पन्नाः श्रीआर्यखपटा नाम आचार्यसम्राजः । तेषां शिष्यो भागिनेयो भुवनो नाम । ते ५ सूरयो 'भृगुकच्छं' विजहुः । तत्र बलमित्रो नाम बौद्धभक्तो राजा,
१५
चतुर्विंशतिप्रबन्धे
[ 8 ]
॥ अथार्यखपटाचार्यप्रबन्धः ||
[ ४ श्री आर्य खपटाचार्य
बौद्धाश्च महाप्रामाणिकास्तादृग्यजमान गर्विताश्च दुर्दान्ताः । ' एकं वानरी, अपरं वृश्चिकेन जग्धा ' इति न्यायात् ते श्वेताम्बराणां 'धर्मस्थानेषु तृणपूलकान् निक्षेपयन्ति, यूयं पशव इति भावः। अनयाऽवज्ञया खपटाचार्या न चुक्रुधुः, गुरुत्वात् । यतः
उपद्रवत्सु क्षुद्रेषु, न क्रुध्यन्ति महाशयाः ।
:
उत्फालैः शफरैः किं स्या- होल: कल्लोलिनीपतिः १ ॥ १ ॥ भुवनस्तु चुकोप | श्रावकशतसहस्रसड्कुलो राज्ञः पार्श्व ययौ श्रीगुर्वनुज्ञां गृहीत्वा तत्रोचैरुवाच
तावड्डण्डिमघोषणां विदधतां तावत् प्रशंसन्तु च
स्वात्मानं प्रथयन्तु तावदतुला 'रीढां च पूज्ये खलाः । यावत् प्राज्यघृतप्रतर्पितंर्बृहद्भानुप्ररोहत्पृथु -
१०
ज्वालाजालकरालजल्पनिवहैर्नोत्तिष्ठतेऽयं जनः ॥ १ ॥
बभाण
राज्ञा बलमित्रेणोक्तम् —साधो ! किं किमात्थ । भुवनो -तव गुरवस्तार्किकंमन्या गेहेनर्दिनः श्वेताम्बरान् निन्दन्ति, २० ततो वयं वादाय त्वत्सदः सम्प्राप्ताः । आस्फालय तान् मया सह, एकदा भवतु श्रोतॄणां कर्णकौतुकम् । ततो राज्ञा ते आहूताः । चतुरङ्गसभायां वादं कारिता: । भुवनमुनिपश्चाननतर्कचपेटाताडिता: "फेरण्डा इव तूष्णीकाः समजनिषत । राजादि
Jain Education International
१ क-‘खपुटा’। ३ क-ख-- 'धर्मस्थाने' । ३ ख - 'तया' । ४ क- 'खपुटा ० ' । ५. क-ध-- ‘क्षुभ्यन्ति' । ६ मत्स्यविशेषैः । ७ अनुष्टुप् । ८ अविनयम् । ९ अभि० । १० शार्दूल । ११ शृगालाः ।
For Private & Personal Use Only
www.jainelibrary.org