SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १५८ चतुर्विशतिप्रबन्धे [पीपस्तुपालश्वत्वारिंशदधिकशतं देवार्याः, सप्तलक्षमनुष्याः, इदं प्रथमयात्राप्रमाणम् । अग्रेतना तदधिका ज्ञेया । यथा चतुरशीतिस्तडागाः सुबद्धाः । चतुःशती चतुःषष्टयधिका वापीनाम् । पाषाणमयानि द्वात्रिंशद् दुर्गाणि । चतुःषष्टिर्मशीतयः । एवं लौकिकमपि कृतं मनो विनाऽपि । तथा दन्तमयजैनरथानां चतुर्विंशतिः । विंशतिशतं शाकघटितानाम् । एकविंशत्याचार्यपदानि कारितानि । सरस्वतीकण्ठाभरणादीनि । चतुर्विंशतिबिरुदानि भाषितानि कविजनैः । श्रीवस्तुपालस्य दक्षिणस्यां दिशि 'श्री'पर्वतं यावत् पश्चिमायां 'प्रभासं' यावत् उत्तरस्यां 'केदार' पर्वतं यावत् , पूर्वस्यां 'बाराणसी' यावत् , तयोः कीर्तनानि श्रूयन्ते । सर्वाग्रेण त्रीणि कोटिशतानि चतुर्दश लक्षा अष्टादश सहस्राणि अष्ट शतानि द्रव्यव्ययः पुण्यस्थाने । त्रिषष्टिवारान् सङ्ग्रामे जैत्रपदं गृहीतम् । अष्टादश वर्षाणि तयोर्ध्यावृत्तिः। ___ 'बिरुदाने २४ वस्तुपालस्य, तद्यथा-- प्राग्वाटज्ञास्य१५ लङ्करण १ सरस्वतीकण्ठाभरण २ सचिवचूडामणि ३ कुर्चाक सरस्वती ४ सरस्वतीधर्मपुत्र ५ लघुभोजराज ६ षण्डेरातु . दातारचक्रवर्ति ८ बुद्धि अभयकुमारु ९ रूपि कंदर्प १० चतुरिमा चाणाक्यु ११ ज्ञाति वाराहु १२ ज्ञाति गोपाल १३ सैद वंशक्षयकाल १४ सांखुलारायमादमर्दनु १५ मज्जाजैन १६ गम्भीर २० १७ धीरु १८ उदार १९ निर्विकारु २० उत्तमजनमाननीयु २१ सर्वजनमाननीयु २२ शान्तु २३ ऋषिपुत्रु २५ ॥ ॥ इति 'श्रीवस्तुपालप्रबन्धः ॥ २४ ॥ श्री प्रश्नवाहन'कुले 'कोटिक'नामनि गणे जगद्विदिते । श्री मध्यम शाखायां 'हर्षपुरीया'ऽभिधे गच्छे ॥१॥ ग-'पश्चनदे'। २ 'बिरुदानि० ऋषिपुत्रु २' इति पाठाभिकता प-प्रतावेन । ब-'पालतेजःपालयोः प्रबन्धः'। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy