________________
प्रबरपा] प्रबन्धकोशेत्यपराह्वये
२५९ 'मलधारि'बिरुदविदितश्रीअभयोपपदसूरिसन्ताने श्रीतिलकसूरिशष्यः सूरिः श्रीराजशेखरो जयति ॥२॥ तेनायं मृदुगधैर्मुग्धो मुग्धावबोधकामेन । रचितः प्रबन्धकोशो जयताजिनपतिमतं यावत् ॥ ३ ॥' तथा~ 'कट्टारवीरदुस्साध'वंशमुकुटो नृपौघगीतगुणः । बब्बूलीपुरकारितजिनपतिसदनोच्छलत्कीर्तिः ॥ ४॥ बप्पकसाधोस्तनयो गणदेवोऽजनि 'सपादलक्ष'भुवि । तद्भूनकनामा तत्पुत्रः साढको दृढधीः ॥ ५ ॥ तत्सूनुः सामन्तस्तत्कुलतिलकोऽभवजगत्सिंहः । दुर्भिक्षदुःखदलनः श्रीमहमदसाहिगौरवितः ॥ ६॥ १ सज्जो जयति सिरिभवः षड्दर्शनपोषणो महणसिंहः । 'ढिल्लयां' स्वदत्तवसतौ ग्रन्थमिमं कारयामास ॥ ७॥ शरगगनमनु(१४०५)मिताब्दे ज्येष्ठामूलीयधवलसप्तम्याम् । निम्पममिदं शास्त्रं श्रोत्रध्येत्रोः सुखं तन्यात् ॥ ८ ॥
इति चतुर्विंशतिप्रबन्धाः सम्पूर्णाः ॥
१ घ-'श्रीमलधारिगच्छे श्रीअभयसूरिसन्ताने' । २ घ- 'राजशेखरसूरीन्द्रवादीन्द्रकृतिरियम्' । ३ अतः परं सप्तमपर्यन्तानि पद्यानामभावो घ-प्रतौ । ४ स्व'वश्छलीपूर०' । ५ घ-'श्रीः ॥ संवत् १५२० वर्षे वैशाखवदि त्रयोदश्यां भगुवारे ।। श्री'तपागच्छे श्री ४ सोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यः चतुर्विंशतिप्रबन्धानां प्रतिमेतामलीलिखत् ॥ लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु इत्यादि पण्डितमेरुरत्नगणिना लिखापिता ॥ छ । श्रीः ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org