________________
प्रबन्धः ]
प्रबन्धकोशेस्यपराह्वये एतयोश्च श्रीवस्तुपाल-तेजःपालयोधर्मस्थानसङ्ख्यां कर्तुं क ईश्वरः। परं गुरुमुखश्रुतं किञ्चिल्लिख्यते-लक्षमेकं सपादं जिनबिम्बानां विधापितम् । अष्टादश कोट्यः षण्णवतिर्लक्षाः श्री शत्रुञ्जय'ती द्रविणं व्ययितम् । द्वादश कोट्योऽशीतिलक्षाः श्री'उज्जयन्ते'। द्वादशकोट्यस्त्रिपश्चाशल्लक्षा 'अर्बुद'गिरिशिखरे 'लूणिग'वसल्याम् । ५ नव शतानि चतुरशीतिश्च पौषधशालाः कारिताः । पश्च शतानि दन्तमयसिंहासनानां कारापणम् , सूरीणां प्रत्येकमुपवेशनार्थमर्पणम् । पश्च शतानि पश्चोत्तराणि समवसरणानां जादरमैयानां कारणं श्रीकल्पवाचनाक्षणे मण्डनार्थम् । ब्रह्मशालाः सप्त शतानि । सप्त शतानि सत्रागाराणाम् । सप्तशती तपखि-कापालिकमठानाम् । सर्वेषां १० भोजननिर्वापादि दानं कृतम् । 'त्रिंशच्छतानि द्वयुत्तराणि महेश्वरायतनानाम् । त्रयोदश शतानि चतुरुत्तराणि शिखरबद्धजैनप्रासादानाम् । प्रयोविंशतिः जीर्णचैत्योद्धाराणां, अष्टादशकोटिव्ययेन सरस्वतीभाण्डागाराणां त्रयाणां स्थानत्रये करणं 'धवलक्क'-'स्तम्भतीर्थ'-'पत्तना'दौ । पञ्चशती ब्राह्मणानां नित्यं वेदपाठं कारयति स्म । तेषां १५ गृहमानुषाणां निर्वाहकरणम् । वर्षमध्ये सङ्घपूजात्रितयम् । पञ्चदशशती श्रमणानां नित्यं गृहे 'विहरति स्म । तटिककार्पटिकानां सहस्रं समधिकं प्रत्यहमभुक्त । त्रयोदश यात्राः सङ्घपतीभूय कारिता लोकानाम् । तत्र प्रथमयात्रायां चत्वारि सहस्राणि पश्च शतानि शकटानां सशय्यापालकानाम् , सप्तशती २. सुखासनानाम् , अष्टादशशती वाहिनीनाम् , एकोनविंशतिशतानि श्रीकरीणाम् , एकविंशतिः शतानि श्वेताम्बराणाम् , एकादशती दिगम्बराणाम् , चत्वारि शतानि सार्धानि जैनगायनानाम् , त्रयत्रिंशष्उती बन्दिजनानाम् , चतुःसहस्रतुरगाः, द्विसहस्रोष्ट्राः चतु
घ-व्ययकृतम्' । २ ख-'मथाना' । ३ ग-'पञ्चविंशतिशतानि हरिहरब्रह्मादिमहे' । ख-'कुर्वन्ति स्म', ध-करोति स्म'। ५ 'सर्वदर्शनिनां' इसधिको गपाठः । (ख-विरमति स्म' 10 ग-बाककटिक-कार्प"। पतुर्विधति ३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org