SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे [ श्रीजीवदेवसूरि - कारिते--एका विशिष्टा, 'अपरा मध्यमा कुटुम्बार्था । दिग्वासाः पूर्वमाकारितः । स विशिष्टां रसवती भुङ्क्ते स्वैरम् , कुरसवतीं पश्यत्यपि न । राशिल्लसूरिशिष्यौ द्वावागतौ । ताभ्यां निर्जरा र्थिभ्यां कुरसवतीं विजहे । मात्रा भोजनादनु दिगम्बरः प्रोक्तः५ वत्स ! एते श्वेताम्बराः शुद्धाः, त्वमाधाकर्मचिन्तां न करोषि । एते तु वदन्ति भुजइ आहाकम्म, सम्मं न य जो पडिकम्मइ । ___ लुद्धो सव्वाजणाणा-विमुहस्स तस्स आराहणा नत्थि ॥१॥ तथैव च पालयन्ति । तस्मादेतेषां मिल, मोक्षमिच्छसि चेत् । १० स्वर्णकीर्तिर्मातृवचसा प्रबुद्धः श्वेताम्बरदीक्षामाददे । जीवंदेव सूरिः इति नाम तस्य दशसु दिक्षु विस्तृतम् । यतिपञ्चशतीसहचरो विहरन् भव्यानां मिथ्यात्वादिरोगान् सुदेशनापीयूषप्रवाहेण निर्दलयति । श्रीसूरेरेकदा देशनायां योगी कश्चिदार्यांतः । स ' त्रैलोक्य१५ जयिनी ' विद्यां साधयितुं द्वात्रिंशल्लक्षणभूषितं नरं विलो कयति । तस्मिन् समये ते त्रय एव-एको विक्रमादित्यः, द्वितीयो जीवदेवसूरिः, तृतीयः स एव योगी, नान्यः । राजाऽवध्यः । नरकपाले एकपुटी षण्मासी यावद् भिक्षा याच्यते भुज्यते च, ततः सिध्यति । तेन सूरिं छलयितुमायातः । सूरीणां — सूरि'मन्त्र२० प्रभावाद् वस्त्राण्येव नीलीभूतानि, न पुनर्वपुः । ततो गुरुसमीपस्थ वाचकजिह्वा स्तम्भिता । श्रीजीवदेवसूरिदृष्टौ ‘स्वजिह्वाया योगपट्टपर्यस्तिका बबन्ध । सभ्यलोको बिभाय । प्रभुभिः स कीलितः । १ ग.द्वितीया' । २ दिगम्बरः। ३ छाया-भुक्ते आधाकर्म सम्यक न च यः प्रतिक्राम्यति । लुब्धः सर्वजिनाझाविमुखस्य तस्याराधना नास्ति । .... क-ख-.' तस्मादेषां' । ५ क-ख- 'मादत्ते' । ६ ग-- 'गतः'। ७ ग-- पुस्तके 'स' इति आरभ्य 'स्तम्भिता' पर्यन्त अधिकं दृश्यते।८ क-ख- 'जिह्वाया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy