________________
प्रबन्धः]
प्रबन्धकोशेत्यपराह्वये
[३] ॥ अथ श्रीजीवदेवमूरिप्रवन्धः ॥ 'गूर्जर'धरायां वायुदेवतास्थापितं 'वायट' नाम महास्थानम् । तत्र धर्मदेवनामा श्रेष्ठी धनवान् । तस्य शीलवती नाम गेहिनी गेहश्रीरिव देहिनी । तयोः सुतौ महीधर-महीपालौ । महीपालः क्रीडाप्रियो न कलाऽभ्यासं करोति । ततः पित्रा 'हक्कितो रुष्टो देशान्तरमसरत् । धर्मदेवश्रेष्ठी परलोकं प्राप्तः । महीधरोऽपि श्रीजिनदत्तसूरीणां ‘वायट' गच्छीयानां पादमूले प्रवव्राज । स राशिल्लसूरि म सूरीन्द्रो बभूव । महीपालोऽपि पूर्वस्यां दिशि 'राजगृहे ' पुरे दिगम्बराचार्यदीक्षां प्राप्याचार्यपदमवाप । सुवर्णकीर्तिः इति नाम पप्रथे । श्रुतकीर्तिना गुरुणा तस्मै द्वे विधे प्रदत्ते-' चक्रेश्वरी विद्या 'परकायप्रवेश'विद्या च । धर्मदेवे दिवं १० गते शीलवती दुःखिन्यासीत् यतः
यथा नदी विमाऽम्भोदाद्, यामिनी शशिना विना।
अम्भोनिनी विना भानु, भ; कुलवधूस्तथा ॥१॥ 'राजगृहा'गतपरिचितमनुष्यमुखेन स्वपुत्रं स्वर्णकीर्ति तत्रस्थं ज्ञात्या तन्मिलनाय गता । मिलितः स्वर्णकीर्तिस्तस्याः । उन्मी- १५ लितो मातापुत्रस्नेहः । एकदा तया सुवर्णकीर्तिर्भाषितः-तव पिता दिवमगमत् । त्वमत्र सूरिः । महीधरस्तु राशिल्लसूरि म श्वेताम्बरसूरिपदे वर्तते । ' वायट'प्रदेशे विहरति । युवां द्वावेकमतीभूय एकं धर्ममाचरतम् । 'वायट'मानीतस्तया सः । द्वौ बान्धवौ एकत्र मिलितौ । सुवर्णकीर्तिर्भाषितो मात्रा, वत्स ! स्वं २० श्वेताम्बर एधि । सुवर्णकीर्तिर्वदति- राशिल्लसूरिदिगम्बराचार्यों भवतु मदनुसरणात् । एवं वर्तमाने मात्रा द्वे रसवत्यौ
१ क-ख--' स्थितं'। 'हांकी कढायेलो' इति भाषायाम् । ग--'शशिनं'। ४ अनुष्टुप् । ५ ग- 'सुवर्णकीर्तिः । ६ क-ख-'महीपालस्तु'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org