________________
प्रबन्धः ] प्रबन्धकोशेत्यपराये
१५ ततस्तेन खटिकया भूमौ लिखितम्
उपयारह उवयारडउ सव्वउ लोउ करेइ ।
अवगुणि कियइ जु गुणु करइ विरलउ जमणी जणेइ ॥ १॥ अहं तव च्छुलनार्थमागतोऽभूवम् । त्वया ज्ञातः, स्तम्भितः, प्रसीद, मुश्च, कृपां कुरु इत्यादि । ततः कृपया प्रभुभिर्मुक्तोऽसौ 'वायट-' नगरे बहिर्मठीं गत्वा तस्थौ । प्रभुभिः स्वगच्छः समाकार्योक्त:योगी दुष्टो बहिर्मठेऽस्ति अमुकदिशि; । तस्यां दिशि केनापि साधुना साध्व्या वा न गन्तव्यमेव । तथेति तन्मेने सर्वैः । साध्व्यौ तु द्वे ऋजुतया कुतूहलेन तामेव दिशं गते । योगिना समेत्य चूर्णशक्त्या वशीकृते तत्पार्श्व न मुंञ्चतः । प्रभुभिः स्ववसतौ दर्भपुत्रकः कृतः। १० तस्करच्छेदे योगिनोऽपि करच्छेदः । मुक्ते साध्व्यौ । मस्तकक्षालनात् परविद्याविदलनेन सुस्थीभूते ते।
अथान्यदा ' उज्जयिन्यां' विक्रमादित्येन 'संवत्सरः प्रवर्तयितुमारेभे । तत्र देशानामनृणीकरणाय मन्त्री निम्बो 'गूर्जरधरादिशि प्रहितो विक्रमेण । स निम्बो 'वायटे' १५ 'श्रीमहावीरप्रासादमचीकरत् । तत्र देवं श्रीजीवदेवसूरीन्द्रः प्रेत्यतिष्ठपत् । __ अन्येधुर्वायटे लल्लो नाम श्रेष्ठी ‘महामिथ्यादृग् । तेन होमः कारयितुमारब्धः । विप्रा मिलिताः । आसन्नादाचाम्लिकाद् द्रुमाद् धूमाकुलोऽहि: "कुण्डासन्नोऽपतत् । निघृणैर्विरैः स वराक २० 'उत्पाट्याग्नौ जुहुवे। लल्लस्तद् दृष्ट्वा विरक्तो विप्रेषु उवाच च-अहो निष्ठुरत्वमेतेषाम् ! । एवं जीवहिंसारता ये तस्मादलमेभिर्गुरुभिः ।
१ छाया-उपकारकस्य उपकारं सवों लोकः करोति ।
अवगुणे कृते यो गुणं करोति विरलं तं जननी जनयति ॥ . २ क-'मुन्चेते'। ३ ख-- वरसरो वर्तयितु.। अयं प्रासादस्तत्राचापि समस्ति । ५ ग-प्रत्यतिष्टिपत् '। ६ ग--पुस्तके 'महामिथ्याक् एतदधिकम्'। ७ क-ख---'कुण्डासने। ग-'उत्पारण वहौ'।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org