________________
प्रबन्धा
]
प्रबन्धकोशेत्यपराजये
परं गुरुपरिभवो दुःसहः । अथ किं व्याप्तं जग्धं पीतं दत्तं गृहीतं विलसितं यदा तदा यथा तथा मर्तव्यमेष । इदमेषं मरणमित्थं भवतु ।
जीवितैकफलमुद्यमार्जितं, लुण्टितं पुरत एव यद् यशः ।
ते शरीरकपलालपालनं, कुर्वते बत कथं मनस्विनः ! ॥१॥ ५ इत्यादिगीर्भिर्मतिकृतनिश्चयं मन्त्रिणं ज्ञात्वा गुरुत्वा राजानमूचे-राजेन्द्र ! म्रियत एवात्र 'झगटके मन्त्री । सः अप्रेऽपि युद्धशूरः तेषु तेषु स्थानेषु जयश्रीवरो जातः । तत्र वक्तुं न पार्यते। अपि च 'तृणं शूरस्य जीवितम्' इति वचनात् ईशो योधः कचिद् विषमे कार्येऽने धृत्वा घास्यते, नैवं वृथा । बहुधा भवतामुप- १० कारी । अन्यच्च स किं प्रभुर्यो जीर्णभृत्यानां द्विवानपराधान् न सहते ? । अस्मदादीनामपि मनसि देवस्य कीदृशी आशा भाविनी । इत्यादि दृढं मृदुसारं निगद्य हस्ते कृतो राजा । यदुक्तम्--
वल्ली नरिंदचित्तं, वरखाणं पाणियं च महिलाओ।
तस्थ य वञ्चंति सया, जत्थ य धुत्तेहिं निजंति ॥१॥ १५ राजा प्रोवाच-मन्त्री धीरां दत्त्वा सम्मान्य समानीयताम् । गतो गुरुस्तत्र । राज्ञोक्तमुक्त्वा नीतो गन्त्री । परं सन्नद्धबद्ध एव मिलितः । राज्ञा विविधतदुपकृतिस्मृत्या आर्द्रनयनमनसा पितृवदुपशमितो मन्त्री । मातुलाः पादयोलगापिताः । स मन्त्रिच्छेदितः सिंहहस्तो लोके दर्शितः । बहुराजलोकसमक्षं शब्दः प्रलापितः यो मन्त्रिदेव- २० गुरुहन्ता तस्य प्राणान् हनिष्यामः । इत्युक्वा जिनमतस्य मन्त्रिणश्च गौरवमवीवृधद् वीसलदेवः । १ स्वागता । २ ख-प्रघट्टके' (?)। ३ ग-पुस्तके एवेदं पद्यं दृश्यते । अस्य छाया चैवम्
वही नरेन्द्रचित्तं व्याख्यानं पानीयं च महिलाः ।
तत्र च वर्धन्ते सदा पत्र च धूर्तीयन्ते ।। आयाँ। ५घ- पदयोर्लगिता' । ६ घ-हरिष्यामः'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org