________________
चतुर्विशतिप्रवन्धे [१४ औषरतुपाकभणपालो मन्त्र्यन्तिकमगमत, करमदीहशत् । मन्त्रिणा शक्षाधेऽसौ । स करः स्वसौधागे बद्धः । स्वमानुषाणि परमाप्तनरगृहे मुक्तानि । आत्मीयपरिग्रहो भाषितः यस्य जीविताशा स स्वगृहं यातु, जीवतु चिरम् । अस्माभिर्बलवता सह धैरमुपार्जितम् । मरणं करस्थमेव, जीविते सन्देहः । तैः सर्वैरैप्युक्तम्-देवेन सह मरणं जीवितं च । स्थिताः स्मो वयं । एतदर्थे निश्चयो ज्ञातव्यः । ततो गोपुराणि दवा गृहं नरैः स्वावृत्तं कृत्वा स्वयं स्वसौधोपरि सज्जीभय तस्थौ निषङ्गी कवची धनुष्मान् । ततः सिंहस्यापि परिच्छदो मिलितो बान्धवा
दिर्भूयान् । तैः सर्वैरभाणि-गत्वा श्रीवस्तुपालं सपुत्रपशुबान्धवं १० हनिष्याम इति प्रतिज्ञा जज्ञे । चलितं 'जेठुआक'सैन्यम् । यायद्
राजमान्दराने आयातं कलकलायमानं तत् तावदेकेन ज्यायसोक्तम्-एवंविधं व्यतिकरं यदि राजा विज्ञप्यते तदा घरम् ; माऽस्मत्सहसाकारित्वे तस्य कोपोऽभूत् । ततो विज्ञप्तं राज्ञे ।
राज्ञा वार्ता ज्ञात्वा विमृश्य भणितम्-अनपराद्धे वस्तुपालो न १५ पीडयति किश्चित् । युष्माभिरन्यायं कृतं भावि । तैरुक्तम्
मन्त्रिणो गुरुः पीडितः । राजा प्राह-यदीत्थं कृतं तस्मात् तिष्ठतामत्रैव । वयं स्वयं करिष्यामो यदुचितम् । ततः सोमेश्वरदेवः पृष्टःगुरो ! किमत्र युक्तं स्यात् । गुरुणोक्तम्--मां तत्पार्श्वे प्रहिणुत ।
मायतिपथ्यं करिष्ये । प्रहितः सः । प्राप्तो मन्त्रिसौधद्वारम् । प्राप्तो २० मन्त्र्यनुज्ञया मन्त्रिपार्श्व पुरोहित आह-मन्त्रिन् ! किमेतदल्पे कार्ये
कियत् कृतं भवद्भिः ? । 'जठ्यका' मिलिताः सन्ति । राजाऽपि तद्भागिनेयः । ऋद् वः शम्यतां येन सन्धि कारयामि । अथ मन्त्रीशः प्राह-मरणात् किं भयम् ? ।
'जिते च लभ्यते लक्ष्मी- म॒ते चापि सुराङ्गना । २५ क्षणाविध्वांसनी काया, का चिन्ता मरणे रणे ! ॥१॥ • १ घ-'जेठ्यक' । २ ग-'अनपराधे'। ३ग-'जेठअक्का' । ४ घ-'तमानेयः'। ग-सेन क्रोधः' ।। इदं पद्यं नास्ति ख-घ-प्रत्योः । ७ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org