________________
प्रबन्धः ]
प्रबन्धको शत्यपराह्नये
सूर्याचन्द्रमसौ निरस्ततमसौ दूरं तिरस्कृत्य यत् पादस्पर्शसहं विहायसि रज: स्थाने तयो: स्थापितम् ॥१॥'
निवर्तितं दिव्यं राज्ञा ।
अथ कदाचिद् 'धवलकके' मन्त्रिणि वसति सति पौषधशाला एका आस्ते । तस्या उपरितनं पुञ्जकं क्षुल्लकोऽधः क्षिपन्नासीत् । तस्याज्ञानात् स पुञ्जको वीसलदेवमातुलस्य सिंहनाम्नो यामाधिरूढस्याधो रथ्यायां गच्छतः शिरसि पतितः । क्रुद्धः सः । मध्ये आगत्य क्षुल्लकं दीर्घया तर्जनकेन पृष्ठे दृढमाहत्य रे मां 'जेठुआकं' 'सिंहनामानं राजमातलं न जानासीति वदन् स्वगृहं गतः । तं वृत्तान्तं मध्याह्ने मन्त्रिवस्तुपालं भोजनारम्भे उत्क्षिप्त प्रथम- १० कवलं आगत्य रुदन्नुद्घाटितपृष्ठोऽभिजिज्ञपत् क्षुल्लकः । मन्त्रिणा - Sभुक्तेनैव उत्थाय क्षुल्लकः सन्धार्य प्रस्थापितः, शालायां प्रेषितश्व । तदनु स्वयं स्वकीयः परिग्रहो भाषितः - भो क्षत्रियाः ! स कोऽप्यस्ति युष्मासु मध्ये यो मम मनोदाहमुपशमयति । तन्मध्ये एकेन राजपुत्रेण भ्रूणपालाख्येनोक्तम् - देव ! ममादेशं देहि ; प्राणदानेऽपि १५ तब प्रसादानां नानृणी भवामः । स एकान्ते नीत्वा मन्त्रिणा छन्नं कर्णे प्रविश्य समादिष्टम् - याहि, 'जेठुआ 'वंशस्य राजमातुलस्य सिंहस्य दक्षिणं पाणि छित्त्वा मे ढौकय । स राजपुत्रस्तथेत्युक्त्वा एकाकी मध्याह्नोद्देशे सिंहावासद्वारे तस्थौ । तावता राजकुलात् सिंह आगात् । राजपुत्रेणाग्रे भूत्वा प्रणिपत्य सिंहाय उक्तम् - मन्त्रिणा श्रीवस्तु- २० पालदेवेनाहं वः समीपं केनापि गूढेन कार्येण प्रेषितोऽस्मि । तेन इतो भूत्वा प्रसाऽवधार्यताम् । इत्युक्तः स किञ्चिद् गत्वा पैराङ्मुखो भूत्वा यावद् वार्ता श्रोतुं यतते तावन्मन्त्रिभृत्येन सिंहस्य करः स्वकरे कृतः सहसा छुर्याच्छिन्नश्च । छिन्नं तं करं गृहीत्वा रे वस्तुपालस्य भृत्योऽस्मि, पुनः श्वेताम्बरं परिभवेरिति वदंश्चरणबलेन पलाम्य २५
२५१
१ शार्दूल० । २ घ - 'सिंहं राज० ' । ३ ग ' 'गूढेकार्येण' । ४ घ - 'परागभूत्वा' । ५ ग - 'सहसा कङ्कलो हछुर्यो' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org