SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५४ चतुर्विशतिप्रबन्धे [ श्रीवस्तुपाक. अथ विक्रमादित्यात् १२९८ वर्ष प्राप्तम् । श्रीवस्तुपालो ज्वररुक्केशेन पीडितः तदा तेजापालं सपुत्रपौत्रं स्वपुत्रं च जयन्तसिंहमभाषत-वत्साः! श्रीनरचन्द्रसूरिभिर्मल्लधारिभिः संवत्'१२८७ वर्षे भाद्रपदयदि १० दिने तेषां देवगमनसमये वैवमुक्ताःमन्त्रिन् ! भवतां १२९८ वर्षे स्वर्गारोहो भविष्यति । तेषां वासि च न चलन्ति, गीःसिद्धिसम्पन्नत्वात् । ततो वयं श्री शत्रुञ्जयं' गमिष्याम एव । गुरुर्भिषग् युगादीश-प्रणिधानं रसायनम् । सर्वभूतदयापथ्य, सन्तु मे भवरुग्भिदे ॥१॥ लब्धाः श्रियः सुखं स्पृष्टं, मुखं उष्टं तनूरुहाम् । पूजितं दर्शनं जैनं, न मृत्योर्भयमस्ति मे ॥२॥ कुटुम्बेन तन्मतम् । 'शत्रुञ्जय'गमनसामग्री निष्पन्ना । वीसलदेवो मन्त्रिणा साश्रुलोचनः समापृष्टः मुत्कलापितश्च कतिपय पदानि सम्प्रेषणायायातः । ततो नागडप्रधानगृहं मन्त्री स्वयमगात् । १५ तेनासनादिभिः सत्कृत्य पृष्टः कार्यविशेषं मन्त्री बभाषे-वयं भवान्तरशुद्धाय 'विमल' गिरिं प्रति प्रतिष्ठामहे । भवद्भिर्जेनमुनयोऽमी ऋजवः सम्यग् रक्षणीयाः, क्लिष्टलोकात् । यतः गौर्जराणामिदं राज्यं, वनराजात प्रभृत्यपि । स्थापितं जैनमन्त्रीधै-स्तद्वेषी नैव नन्दति ॥१॥ २० इति ज्ञातव्यम् । मन्त्रिनागडेनोक्तम्-श्वेताम्बरान् भक्त्या गौरवयिष्यामि । चिन्ता न कार्या । स्वस्त्यस्तु वः । इति तद्वचसा समतुषत् । अथ चचाल वस्तुपालः । 'अङ्केवालिआ'ग्रामं यावत् प्राप तत्र शरीरं बाढमसहं दृष्ट्वा तस्थौ । तत्र सहायाताः सूरयो १ ग-एवं काले गच्छति' । २ क--१२२८ वर्षे' । ३ ग-वधमेवमुक्ताः ' । r-५ अनुष्टुप् । ६ ग-'तन्मानितम्'। ७ 'गौर्जरात्रमिदं'। ८ ग-'मन्त्रैस्तु'। ९ अनुष्टुप् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy