SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवाचे [ीवस्तुपाकएतत् तत्त्ववचः श्रुत्वा मन्त्रिवरः प्राह-अयि कमलदलदीर्घलोचये ! त्वां विना कोऽन्यः एवं वक्तुं जानाति । 'ताम्रपर्णी'तटोत्पन्नै-ौक्तिकैरिक्षुकुक्षिजैः बद्धस्पर्धभरा वर्णाः, प्रसन्नाः स्वादवस्तव ॥५॥ ५ गृहचिन्ताभरहरणं, मतिवितरणमखिलपात्रसत्करणम् । किं किं न फलति कृतिनां गृहिणी गृहकल्पवल्लीव ? ॥६॥' राज्यस्वामिनि ! वद केनोपायेन शीघ्रं प्रासादा निष्पत्सन्ते । देव्याह--- नाथ ! रात्रीयसूत्रधाराः पृथक् दिनीयसूत्रधाराः पृथग् व्यवस्थाप्यन्ते । कटाहिश्चटाप्यते । अमृतानि भोज्यन्ते । सूत्र१० धाराणां च विश्रामलाभाद् रोगो न प्रभवति । एवं चैत्यसिद्धिः शीघ्रा । आयुर्यात्येव, श्रीरस्थिरैव । यतः-- गृहीत इव केशेषु, मृत्युना धर्ममाचरेत् । अजरामरवत् प्राज्ञो, विद्यामर्थं च चिन्तयेत् ॥१॥ इत्यादि सरस्वतीवीणाक्वणितकोमलया गिरोक्त्वा निवृत्ता १५ सुलक्षणा सा । मन्त्रिणा सर्वदेशकर्मस्थायेषु सैव रीतिः प्रारब्धा । निष्पन्नं च सर्व स्तोकैरेव दिनैः । गतो मन्त्री 'धवलक्कक'म् । दिनैः कतिपयैर्वर्धापनिकानर आयातः-देव ! 'अर्बुदा'द्रौ नेमिचैत्यं निष्पन्नम् । हृष्टौ द्वौ बान्धवौ । पुनः प्रासादप्रतिष्ठार्थ गतौ ससधौ तत्र । तत्र च 'जावालि'पुरात् श्रीयशोवीरो नाम भाण्डागारिकः सरस्वतीर्कण्ठाभरणत्वेन ख्यातः स आहूत आगात् । मिलिता वस्तुपाल-तेजःपाल-यशोवीरा एकत्र न्याय-विक्रम-विनया इव साक्षात् । चतुरशीती राणाः । द्वादश मण्डलीकाः । चत्वारो महीधराः। चतुरशीतिर्महाजनाः । एवं सभा । तदा वस्तुपालेन यशोवीर: प्रोचे- भाण्डागारिक ! त्वं नृपउदयसिंहस्य मन्त्री यौगन्धरायण २५ इव वत्सराजस्य । तव स्तुतीः स्वस्थानस्थाः शृणुमः, यथा १ग-बधस्पर्ध०' । २ अनुष्टुप् । ३ आर्या । ४ अनुष्टुप् । ५ ग-'नालहुरपुरात्' । ६ घ-'कण्ठभूषणत्वेन'। २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy