________________
२१५
प्रबन्धा ]
प्रबन्धकोशेत्यपराहये मन्त्री नेमि पूजयति स्म । अथ कायोत्सर्गे ध्यानेनोर्ध्वस्तस्थौ चिरम् । क्षणार्धेनाऽनुपमा पति तथास्थं मुक्त्वा प्रासादनिष्पत्तिकुतूहलेन बहिरागात् । तत्र सूत्रधारः शोभनदेवो मण्डपचतुःस्तम्भी ऊर्ध्वयितुं उपक्रमते । तदा मन्त्रिण्या उक्तम्सूत्रधार ! मम पश्यन्त्याश्चिरं बभूव । अद्यापि स्तम्भा नोत्तभ्यन्ते। ५ शोभनदेवेनोक्तम्-- स्वामिनि ! गिरिपरिसरोऽयम्, शीतं स्फीतम् , प्रातर्घटनं विषमम् । मध्याह्नोद्देशे तु गृहाय गम्यते । स्नायते, पच्यते, भुज्यते । एवं विलम्बः स्यात् । अथ विलम्बात् किं भयम् ?, श्रीमन्त्रिपादाश्चिरं राज्यमुपभुञ्जानाः सन्तीह तावत् । ततोऽनुपमा जगदे- सूत्रधार ! चाटुमात्र. १० मेतत् । कोऽपि क्षणः कीदृक् भवेत् को वेत्ति ? । सूत्रधारो मौनं कृत्वा स्थितः । पत्नीवचनमाकर्ण्य सचिवेन्द्रो बहिनिःसृत्य सूत्रधारमवोचत्- अनुपमा किं वावदीति ? । सूत्रधारो व्याहार्षीत् - यद् देवेन अवधारितम् । मन्त्री दयितामाह-- किं त्वयोक्तम् ? । अनुपमाऽऽह- देव ! वदन्त्यस्मि-कालस्य १५ को विश्वासः ? । काऽपि कालवेला कीदृशी भवति ? । न सर्वदाऽपि पुरुषाणां तेजस्तथा । यथा--
श्रियोर्वा स्वस्य वा नाशो, येनावश्यं विनश्यति । श्रीसम्बन्धे बुधाः स्थैर्य-बुद्धिं बध्नन्ति तत्र किम् ? ॥१॥ वृद्धानाराधयन्तोऽपि, तपयन्तोऽपि पूर्वजान् । पश्यन्तोऽपि गतश्रीकान्, अहो मुह्यन्ति जन्तवः ॥ २ ॥ भूपभ्रपल्लवप्रान्ते, निरालम्बाऽविलम्बनीम् । स्थेयसीं बत मन्यन्ते, सेवकाः स्वामपि श्रियम् ॥३॥ इति विपदितो मृत्यु-रितो व्याधिरितो जरा ।
जन्तवो हन्त पीड्यन्ते, चतुर्भिरपि सन्ततम् ॥४॥ २५ . १ ख-'मौनेनातिष्ठत्' । २-३ अनुष्टुप् । ४ ग-'स्वल्पावस्थायिनी लक्ष्मी, मन्यन्ते मन्त्रिणो बुधाः' । ५-६ अनुष्टुप् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org