________________
चतुर्विंशतिप्रबन्धे
[२४ श्रीवस्तुपाल
जनमुख्य श्रावकं चाम्पलनामानं गृहे गत्वाऽऽललाप । वयं चैत्य'मर्बुदे' कारयामहे यदि पूजासान्निध्यं कुरुध्ये | चाम्पलेनापि स्वस्य कुटुम्बान्तराणामपि देवपूजार्थं नित्यधनचिन्ता कृता । ततो मन्त्री 'आरासणं' गत्वा चैत्यनिष्पत्तियोग्यं दलवाटकं निरका५ शयत् । तद्युग्यैरह कलै (?) श्वार्बुदोपत्यकमानीमयत् । अर्धक्रोशार्धक्रोशान्तरे हट्टानि मण्डापितानि । तत्र सर्वं लभ्यते, पशूनां नराणां क्षुधादि कृच्छ्रं मा भूदिति । 'उम्बरिणी' पथेन प्रासादनिष्पत्तियोग्यं दलं द्विगुणमुपरि गिरेः प्रवेशयामास । पुनस्तां पद्यां विषमां चकार यथा परचक्रप्रवेशो नो भवेत् । एवं सिद्धे पूर्वकर्मणि १० शोभनदेवं सूत्रधारमाहूय कर्मस्थाये न्ययुङ्क्त । ऊदलाख्यं शाल उपरिस्थायिनमकरोत् । अर्थव्यये स्वैरितां च समादिशत् । एवं सूत्रं कृत्वा तेजःपालो 'धवलक्कक' मागमत् । निष्पद्यते प्रासादः । श्रीनेमिबिम्बं कषोपलमयं सज्जीकृतं विद्यते । सूत्रधाराणां सप्तशती घटयति घाटम् । ते तु दुःशीलाः पुरः पुरोऽर्थं गृह्णन्ति । कार्यकाले १५ पुनः पुनर्याचन्ते । तत ऊदलो मन्त्रितेजःपालाय लिखति-देव ! इम्मा विनश्यन्ति । सूत्रधाराः कर्मस्थायात् प्रथमं प्रथमं गृह्णन्ति । ततस्तेजःपालेन कथापितम् - द्रम्मा विनष्टा इति किं बूषे ? । विनष्टा किं कुथिताः । न तावत् कुथिताः, किन्तु मनुष्याणामुपकृताः । उपकृताश्चेद् विनष्टाः कथं कथ्यन्ते ? | माता मे वन्ध्येति वाक्यवत् २० परस्परं विरुद्धं ब्रूषे । तस्मात् तस्वमिदम् - सूत्रधाराणामिच्छाच्छेदो
हम है दु
न कार्यः, देयमेवेति । ततो दत्ते ऊदलः । तावन्निष्पन्नं यावद् गर्भगृहं मध्ये श्री नेमिनाथविम्बं स्थापितम् । एतच कृतं श्रीतेजःपालाय विज्ञप्तम् । तुष्टौ द्वौ मन्त्रिणौ । श्रीवस्तुपालादेशात् तेजःपालोऽनुपमया सहानल्पपरिच्छदो' डर्बुद 'गिरिं प्राप्तः । प्रासादं २५ निष्पन्नप्रायं ददर्श तुतोष (च) । स्नात्वा सद्वस्त्रप्रावरणः सपत्नीको
'निरवकाशयति' । २ ख -- ' उबरणी ०', घ- 'उम्बरणी०' । ३ ग - 'आत्म
ય
१ग
शालकं' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org