________________
प्रबन्ध
प्रबन्धकोशेत्यपराये लक्षी हेम्नां प्रसादपदे सा तु गृहादर्वागेव दत्ता बहुमिलितयाचकेभ्यः । मिलितो मन्त्रिगृहे सर्वोऽपि लोकः । स सत्कृस्य प्रेषितः । कवयस्तु पठन्ति
श्रीमन्ति दृष्ट्वा द्विजराजमेकं, पनानि सङ्कोचमहो भजन्ति ।
समागतेऽपि द्विजराजलक्षे, सदा विकासी तव पाणिपाः ॥१॥' ५ उच्चाटने विद्विषतां रमाणा-माकर्षणे स्वामिहृदश्च वश्ये। एकोऽपि मन्त्रीश्वर ! वस्तुपाल!, सिद्धस्तव स्फूर्तिमियर्ति मन्त्रः ।। एवं स्तूयमान उत्तमत्वाल्लज्जमानो वस्तुपालोऽधो विलोकयामास । ततो 'महानगर' वासिना नानककविना भणितम्-- एकस्त्वं भुवनोपकारक इति श्रुत्वा सता जल्पितं
लज्जानम्रशिराः "स्थिरातलमिदं यद् वीक्षसे वेभि तत् । वाग्देवीवदनारविन्दतिलक ! श्रीवस्तपाल ! ध्रुवं
पातालाद् बलिमुद्दिधीर्षरसकृन्मार्ग भवान् मार्गति ॥३॥ तदैव 'कृष्ण'नगरीयकविकमलादित्येम भङ्ग्यन्तरमुक्तम्--
लक्ष्मी चलां त्यागफलां चकार यां ___ साऽर्थिश्रिता कीर्तिमसूत नन्दिनीम् साऽपीच्छया क्रीडति विष्पाग्रत
__ स्तद्वार्त्तयाऽसौ त्रपते यतो महान् ॥४॥ तेषां कवीनां भूरि दानं दत्तम् । .. अथ कदाचन मन्त्रिणा श्रुतम् , यथा-' रैवतका'सन्नं गच्छता २० लोकानां पार्श्वतो भरटकाः पूर्वनरेन्द्रदत्तं करमुद्ग्राहयन्ति । पोट्टलिकेभ्यः कणमाणकमेकं १ कूपकात् कर्ष एकः, एवं उपद्यते लोकः । तत आयतिदर्शिना सचिवेन ते भरटकाः 'कुहाडी' नामानं ग्रामं दत्त्वा तं करमुग्राहयन्तो निषिद्धाः । 'अङ्केवालियाख्यो प्रामस्तु ऋषभनेमियात्रिकाणां क्षीणधनानां स्वगृहाप्तियोग्यपाथेय- २५ . १ ख-घ-'प्रसादेन' । २ उपजातिः । ३ इन्द्रवजा । पृथ्वीतलम् । ५ शार्दूल। घ-'नन्दनीम्'। ख-'सा पीच्या' । ८ इन्द्रवंशा। पतर्विधति..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org