SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [२४ श्रीवस्तुपालते तत्र बहुतरी । श्रीवरिधवलानुमत्या चलितो मन्त्रिमहेन्द्रः । गतो 'दिल्ली' तटं, राजमातृवचनात् । क्रोश येऽर्वाग् तस्थौ । सुरत्राणः सम्मुखमागान्मातुः । माता प्रणता पृष्टा च सुखयात्राम् । जरत्या प्रोक्तम्-कथं न मे भद्रं यस्या 'ढिल्लयां' त्वं पुत्रः, 'गूर्जर' धरायां तु वस्तुपालः । राज्ञा पृष्टम्--कोऽसै ! । जरत्या वृत्तान्तः प्रोक्तः तद्विनयख्यातिगर्भः । राजाऽऽह-स किमिति नात्रानीतः ? । वृद्धाऽऽहआनीतोऽस्ति । 'दृश्यतां तर्हि । अश्ववारान् प्रहित्य आनाय्य दर्शितो वस्तुपालः । दत्तोपदा मन्त्रिणा । आलापितश्च राज्ञा मात्रा मदधिकस्त्वं पुत्रो मतः, तेन मम बान्धवस्त्वम् । अस्मन्मात १० त्वां स्तौति । एवं सुखवार्ता कृत्वा महतोत्सवेन स्वमातुरप्रेसरः कृत्वा श्रीवस्तुपालो 'ढिल्ली'पुरं नीतः आवासितश्च साधुपूनडस्यावासे । स्वमुखेन सुरत्राणेन निमन्त्र्य साधुपूनडसदने भोजयित्वा निजधवलगृहे आकारितः सचिवेन्द्रः । सविनयं सत्कृत्य परिधापितः । सुवर्णकोटिमेकां प्रसादपदे दत्त्वा उक्तश्चेति किञ्चिद् याचस्व । वस्तुपालेनाभिहि तम्-देव ! 'गूर्जर'धरया सह देवस्य यावज्जीवं सन्धिः स्तात् । उपलपञ्चकं 'मम्माणी'खनीतो दापय । राज्ञा मतं तत् । दत्ता धीरा । तत्फलहीपञ्चकं नृपादेशात् पूनडेन प्रेषितं 'शत्रुञ्जया'दौ । तत्रैका ऋषभफलही, द्वितीया पुण्डरीकफलही, तृतीया २० कपर्दिनः, चतुर्थी चक्रेश्वर्याः, पञ्चमी 'तेजलपुरे' श्रीपार्श्व फलही । वलितः पश्चान्मन्त्रीश्वरः स्वपुरं गतः । प्रणतः स्वस्वामी तेन चिरदर्शनोत्कण्ठाविह्वलेन । पूर्वमपि कर्णाकर्णिकया श्रुतं 'ढिल्ली'गमनवृत्तान्तम् । पुनः सविशेषं मन्त्रिणं पप्रच्छ । सोऽपि निरवशेषमगर्वपरः पंचख्यौ । तुष्टो वीरधवलः । दत्ता दश १ ख-द्वयेन'। २ घ-'दर्शता' । ३ घ-'वार' । ? 'एवं• उक्तश्चेति' इति पाठो घ-प्रतौ न वर्तते । ५ घ-'तु पूनडेन प्रेषि' । ६ ग-'शत्रुञ्जयाद्रौ' । ७ गख-'प्राचख्यौं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy