________________
चतुर्विंशतिप्रबन्धे [१४ श्रीवस्तुपाल"म्मपदे दत्तः । 'शत्रुञ्जय'-' रैवतक'तल्लहट्टिकानगरयोः सुखासनानि कृत्वा मुक्तानि अन्धज्वरितादीनां यात्रिकाणां तीर्थारोहणार्थम् । तदुत्पाटकनराणां तु ग्रासपदे शालिक्षेत्राणि प्रतिष्ठितानि । तीर्थेषु सर्वेषु देवेभ्यो रत्नखचितानि हैमभूषणानि कारितानि । विदेशायातसूरिशुश्रूषार्थं सर्वदेशग्रामण्यो नियुक्ताः । कृतं लौकिकतीर्थकरणमपि स्वस्वामिरञ्जनार्थम् , न भक्त्या स्वयं तु सम्यग्दृष्टित्वात् । एवं तस्योपकाराः कियन्त्युच्यन्ते विवेकशिरोमणेः १ ।
एकदा 'स्तम्भ'पुरं गतो मन्त्री 'धवलक्का'त् । तत्र समुद्रतीरे यानपात्रात् तुरङ्गा उत्तरन्तः सन्ति । तदा सोमेश्वरः कवीन्द्र २. आसन्नवर्ती । मन्त्रिणा समस्या पृष्टा---
- प्रावृट्काले पयो(शि-रासीद् गर्जितवर्जितः । सोमेश्वरः पूरयति स्म
अन्तःसुप्तजगन्नाथ-निद्राभङ्गभयादिव ॥१॥ तुरङ्ममषोडशकमुचितदानेऽत्र दत्तम् । पुनः कदाचिन्मन्त्रि१५ णोक्तम्-काकः किं वा क्रमेलकः ? । सोमेश्वरेण पूरितं पद्यम्
येनागच्छन्ममाख्यातो, येनानीतश्च मत्पतिः । _प्रथमं सखि ! कः पूज्यः, काकः किं वा क्रमेलकः ॥२॥ अत्रापि षोडशसहस्रा द्रम्माणां दत्तिः । एवं लीला तस्य ।
एकदा वृद्धेभ्यः श्रुतमेवंविधम् , यथा-- - 'प्राग्वाट'वंशे श्रीविमलोदण्डनायकोऽभवत् । नेढ-वाहिलयोभ्राताऽभवत् । स चिर'मर्बुदा धिपत्यमभुनक्, गूर्जरेश्वरप्रसत्तेः । तस्य विमलस्य विमलमतेर्वाञ्छाद्वयमभूत्-पुत्रवाञ्छा, प्रासाद
मान्छा च । तत्सिद्धयै स्वगोत्रदेव्यां अम्बिकामुपवासत्रयेणारराध । २५ प्रत्यक्षीभूय सा प्राह-वत्स ! वाञ्छां ब्रूहि । विमलो जगौ-पुत्रेच्छा .. 1-'धर्मपदे'। २ क-ध- रैवतोपत्यकानगरयोः'। ३ घ. 'तदुम्य(१)नरा.'।
-तस्य स्वामि०' । ५ ग-'स्तम्भतीर्थपुरं । ६ ग-राशिः कस्माद् गर्जित.' । - मनापू । ९ ख-तत्सिपैऽम्बामुप० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org