________________
२३७
प्रबन्धकोहिये 'वर्षे विक्रमात् १२७३ वर्षे 'बब्बेर'पुरात् कृता। द्वितीया सुरत्राणादेशात् षडशीत्यधिके द्वादशशतसङ्ख्ये १२८६ वर्षे 'नागपुरा'त् कर्तुमारब्धा । तत्सोऽष्टादश शतानि शकटानि । बहवो 'महाधराः । कुमारः तेन सहितो 'माण्डल्य'पुरं यावदायातः ततः सङ्घसम्मुखमागत्य 'तेजःपालेन 'धवलक्क'मानीतः । श्री- ५ वस्तुपालः सम्मुखमागात् । सङ्घस्य धूली पवनानुकूल्याद् यां यां दिशमनुधावति तत्र तत्र स गच्छति । तटस्थैनरैणितम्मन्त्रीश ! इतो रजः । इतः पादोऽवधार्यताम् । ततः सचिवेन
भणे-- इदं रजः स्प्रष्टुं पुण्यैर्लभ्यते। अनेन रजसा स्पृष्टेन पापरजांसि दूरे नश्यन्ति । यतःश्रीनाथपान्थरजसा विरजा भवन्ति
तीर्थेषु बम्भ्रमणतो न भवे भ्रमन्ति । द्रव्यव्ययादिह नरा स्थिरसम्पदः स्युः
पूज्या भवन्ति जगदीशमथार्चयन्तः ॥१॥ ततः सङ्घपतिपूनड-मन्त्रिणोर्गाढीलिङ्गन-प्रियालापौ संवृत्तौ । सर- १५ स्तीरे स्थितः सङ्घः । पूनडः कुलगुरुमलधारिश्रीनरचन्द्रसूरिपादान् ववन्दे । रात्रौ श्रीवस्तुपालेन कथापितं पूनडाय पुण्यात्मने-प्रातः सर्वसङ्घनास्मद्रसवत्यतिथिना युष्मता च भवितव्यम् , धूमो न कार्यः। पूनडेन तथेति प्रतिपन्नम् । रात्रौ मण्डपो द्विद्वारो रसवतीप्रकारश्च। सर्व निष्पन्नम् । प्रातरायान्ति नागपुरीयाः। सर्वेषां चरणक्षालनं तिलकरचनां च श्रीवस्तुपालः स्वहस्तेन करोति । एवं लमा द्विप्रहरी । मन्त्री तु तथैव निर्विण्णः । तदा तेज:
१ ख- वर्षे बत्सरे पुराद् विहिता। द्वितीया'। २ ग-बिम्बेर०' । ३ घ'महामधराः' । ग-तदनुसारेण शेषः परिवारः । माण्डलिग्रामासन्नी यावदायातः स सधः तावत् सन्मुख'। ५ घ-'महन्तकतेजःपालेन'। ६ वसन्तः । ७ ग'र्गाढमालिङ्गन०' । ८ ग-'नास्मदावासे भोक्तव्यम्, धूमो' । ९ घ-'आदृष्टम्' ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org