________________
२३८
चतुर्विशतिप्रवन्धे [r पीपस्तुपाल. पालेन विज्ञप्तम्-अन्यैरपि देव! वयं सङ्घपदक्षालनादि करिष्यामः, यूयं भुग्ध्वम् , तापो भावी । 'मन्त्री भणति- मैवं 'वादीः । पुण्यैरयमवसरो लभ्यते । गुरुमिरपि कथापितम्
यस्मिन् कुले यः पुरुषः प्रधानः, स एव यत्नेन हि रक्षणीयः । __तस्मिन् विनष्टे हि कुलं विनष्टं, न नाभिभङ्गे त्वरका वदन्ति ॥१॥ तस्माद् भोक्तव्यं भवद्भिः । तापो मा भूत् । 'मन्त्रिणा गुरुन् प्रति पुनरिदं काव्यं प्रहितम्
अब मे फलवती पितुराशा, मातुरशिषि शिखाङ्कुरिताऽध ।
यद् युगादिजिनयात्रिकलोकं, पूजयाम्यहमशेषमखिन्नः ॥२॥ १० भोजयता मन्त्रिणा नागपुरीयाणामेकपडित्वं दृष्ट्वा शिरो धूनि
तम् । अहो शुद्धा लोका एते !। एवं भोजयित्वा परिधाप्य च रचितो 'नागपुर'सङ्घः । गतौ वस्तुपाल-पुनडौ श्री शत्रुक्षयं' ससद्धौ । वन्दितः श्रीऋषभः। एकदा स्नात्रे सति देवार्चको
देवस्य नासां पिधत्ते पुष्पैः किल कलसेन नासां मा पीडीदिल्या१५ शयतः । तदा मन्त्रिणा चिन्तितम्-बदाचिद् दैवाद् देवाधिदेवस्य
कलसादिना परचक्रेण वाऽवक्तव्यमङ्गलं भवेत् तदा का गतिः सञ्चस्य इति चिन्तयित्वा पूनड आलेपे-भ्रातः ! सङ्कल्पोऽयमेवं मे संवृत्तः- यदि बिम्बान्तरमैश्ममम्माणीमयं क्रियते तदा सुन्दरतरम् । तत् तु सुरत्राणमोजदीनमित्रे त्वयि यतमाने स्यान्नान्यथा । पूनडेनोक्तम्-- 'तत्र गतैश्चिन्तयिष्यतेऽदः । इत्यादि वदन्तौ 'रैवता'दितीर्थान् वन्दित्वा व्यावृत्तौ तौ। गतः पूनडो 'नागपुर' म्। मन्त्री धैवलक्के राज्यं शास्ति ।
एवं स्थितेऽन्येयुः सुरत्राणमोजदीनमाता वृद्धा हजयात्रार्थिनी
ग-'देव ! अन्यरपि पङ्घभक्तिः कारयिष्यते' । २ घ-'मन्त्रिनरेन्द्रेण उक्तम्मवै वदत । पुण्यं०' । ३ ख-दत'। ४ उपजातिः । ५ ख-घ-'मंत्रिणा पत्री गुरुमिः प्रेषि । तत्र काव्यम्'। ६ स्वागता। क-'मस्य'। ८ ग-'सुन्दरम् । ९ ग-'ततः' । १० ग-स्तम्भतीर्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org