________________
चतुर्विंशतिप्रबन्धे
[ २४ श्रीवस्तुपाल
लक्षेण सह चलितो मन्त्री । तृतीयप्रयाणे महणलदेवीं कर्पूरादिमहापूजापूर्व समा । सा तद्भाग्यात् प्रत्यक्षीभूयोवाच - वत्सक ! मा भैषीः । 'अर्बुद 'दिशा यवनाः प्रवेक्ष्यन्ति । तव देश यदाऽमी प्रविशन्ति तदैतल्लङिता घण्टिकाः स्वराजन्यै रोघयेथाः । ५ तेऽथ यत्रावासान् गृह्णन्ति तत्र स्थिरचित्तः ससैन्यो युद्धाय सरभसं ढौकेथाः । जयश्रीस्तव करपङ्कजे एव । इदं धारावर्षाय । 'र्बुद 'गिरिनायकाय स्वसेवकाय नरान् प्रेषयत् अकथापयच्च - म्लेच्छसैन्य ' मर्बुद' मध्ये भूत्वा आजिगमिषदास्ते; त्वमेताना गच्छतो मुक्त्वा पश्चाद् घण्टिका रुन्ध्याः । तेन १० तथैव कृतम् । प्रविष्टा यवनाः यावदावासान् ग्रहीष्यन्ति तावत् पतितो वस्तुपालः कालः । हन्यन्ते यवनाः । उच्छलितो बुम्बारवः । केचिद् दैन्तान्तरं (रे) अङ्गुलीं गृह्णन्ति । अपरे तोबां कुर्वन्ति । तथापि नेच्छुटन्ति । एवं तान् हत्वा तच्छीर्ष लक्षैः शकटानि भूत्या 'धवलक' मेत्य मन्त्री स्वस्वामिनं प्रत्यदर्शयत् । १५ श्लाघितश्च तेनायम्
२३६
न ध्वानं तनुषे न यासि विकटं नोच्चैर्वहस्याननं
दर्पान्नोल्लिखसि क्षितिं खरपुटैर्नाज्ञया वीक्ष्यसे । किन्तु त्वं वसुधातलैकधवलस्कन्धाधिरूढे भरे
७
तीर्थान्युच्च तटी विटङ्कविषमाण्युल्लङ्घयन् लक्ष्यसे ॥१॥
२० ततः परिधापितः । विसृष्टः स्वगृहाय । तत्र मङ्गलकरणाय लोकागमः । द्रम्मेण पुष्पं लभ्यते । एवं पुष्पस्रक्ययो लोकैः कृतः । इतश्च 'नागपुरे ' साधुदेल्हासुतः सा० पूनडः श्री मोजदीनसुरत्राणत्नीबीबीप्रतिपन्नबान्धवः अश्वपति गजपति - नरपतिमान्यो विजयते । तेन प्रथमं 'शत्रुञ्जये' यात्रा त्रिसप्तत्यधिकद्वादशशत
१ घ - ' महणकदेवी' । २ ग - 'खयैताना० ' । ३ ख - घ - 'दन्ताङ्गुलीं ' । ४ घ - 'न तु छुटन्ति'। ५ ख-घ-' खामिनमद० ' । ६ घ - 'तीर्थान्यद्रितटी ० ' । ७ शार्दूल० । • ' तदवसरेऽपि' इत्यधिको ग-पाठः । ९ग - 'पत्नीबीबी प्रेमकमलाप्रति ०' |
Jain Education International
***
For Private & Personal Use Only
www.jainelibrary.org