________________
एवं भाव पद दत्त्वा पर्वताहाद्रिदेवपत्तनादि
यो वस्तुपालन ५
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये एवं भावं सम्पूर्य देवोत्तमं श्रीनेमिमापृच्छय सर्वास्तीर्थचिन्ताः कृताः । निर्माल्यपदं दत्त्वा पर्वतादुदतारीत् , न सता हृदयात् , नापि महत्वात् । अथ खङ्गारदुर्गाद्रि-देवपत्तनादिषु देवान् ववन्दे । तेजःपालं ' खङ्गारदुर्गे ' स्थापयित्वा स्वयं ससधो वस्तुपालः श्री धवलकके' श्रीवीरधवलमगमत् । स्वागतप्रश्नः स्वामिना ५ कृतः । आरम्भसिद्धिप्रश्नश्च । ततो मन्त्र्याह--
कामं स्वामिप्रसादेन, प्रेष्याः कर्मसु कर्मठाः।
तद् वैभवं बृहद्भानोः, कचिदूष्मा जलेऽपि यत् ॥१॥' राणकेन ससनः सचिवः खसदने भोजितः परिधापितः स्तुतश्च । तेजपालस्तु 'खगारदुर्ग'स्थो भूमिं विलोक्य २० 'तेजलपुर'ममण्डयत्, सत्रा-ऽऽराम-पुर-प्रपा-जिमगृहादिरम्यम् । प्राकारश्च 'तेजलपुरं' परितः कारितः । पाषाणबद्धस्तुङ्गः।
अथ वस्तुपाला श्रीवीरधवलपार्श्वे सेवां विधत्ते । देशः मुस्थः । धर्मो वर्तते । एवं सत्येकदा 'ढिल्ली'नगरादेत्य चरपुरुषैः श्रीवस्तुपालो विज्ञप्त:- देव । 'ढिल्ली'तः श्रीमोजदीन- १५ मुरत्राणस्य सैन्यं पश्चिमां दिशमुद्दिश्य चलितम् । चत्वारि प्रयाणानि व्यूढम् , तस्मात् सावधानैः स्थेयम् । मन्ये 'अर्बुद'मध्ये भूत्वा 'गूर्जर'धरां प्रवेष्टा । मन्त्रिणा सत्कृत्य ते चरा राणपार्श्व नीताः । कथापितः स प्रबन्धः । ततो राणकेनामाणिवस्तुपाल ! म्लेच्छैगर्दभिल्लो 'गर्दभी' विद्यासिद्धोऽप्यभिभूतः । २. नित्यं सूर्यबिम्बनिर्यत्तुरङ्गमकृतराजपाटीकः शिलादित्योऽपि पीडितः । सप्तशतयोजनभूनाथो जयन्तचन्द्रोऽपि क्षयं नीतः। विंशतिवारबद्धसहावदीनमुरत्राणमोक्ता पृथ्वीराजोऽपि बद्धः । तस्माद् दुर्जया अमी । किं कर्ताऽसि ? । वस्तुपाल उवाचखामिन् ! प्रेषय मां यदुचितं तत् करिष्यामि । ततः साराव- २५
ग-'सर्वासा तीर्थचिन्ताकृत' । २ अमेः । ३ अनुष्टुप् । । ग-पालोऽपि । ५क-ब-घ-भईददिशा गर्जर.'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org