________________
चतुर्विशतिप्रवन्धे [ौवस्तपाल दृष्टे मन्त्री ननत । पपाठ च आनन्दाश्रुनिर्भरिताक्षः
कल्पद्रुमतरुरसौ तरवस्तथाऽन्ये
चिन्तामणिमणिरसौ मणयस्तथाऽन्ये । धिग् जातिमेव ददृशे बत यत्र नेमिः
श्री रैवते' स दिवसो दिवसास्तथाऽन्ये ॥१॥ भभङ्गवैराग्यतरङ्गरंङ्गे, चित्ते त्वदीये 'यदुवंशरत्न ।। कथं कृशाङ्गयोऽपि हि मान्तु हन्त, यस्मादनङ्गोऽपि पदं न लेभे ॥२॥ तत्राऽप्यष्टाहिकादिविधिः प्रागिव । नाभेयभवन-कल्याणत्रय
गजेन्द्रपदकुण्डा-ऽन्तिकप्रासाद-अम्बिका-शाम्ब-प्रद्युम्नशिखरतोर१० णादिकीर्तनदर्शनैर्मन्त्री सङ्घस्य नयनयोः स्वादुफलमार्पिपताम् (t)।
आरात्रिकेऽर्थिनां ससम्भ्रम मन्त्रिमध्ये झम्पापनं दृष्ट्वा श्रीसोमेश्वरकविः 'कवित्वं चकारइच्छासिद्धिसमुन्नते सुरगणे कल्पद्रुमैः स्थीयते
पाताले पवमानभोजनजने कष्टं प्रनष्टो बलिः । १५ नीरागानगमन् मुनीन् सुरभयश्चिन्तामाणिः क्वाप्यगात्
तस्मादर्थिकदर्थनां विषहता श्रीवस्तुपालः क्षितौ ! ॥१॥ 'लक्षः सपादोऽस्य दत्तौ मन्त्रिणः । दानमण्डपिकायां निषण्णो निरर्गलं ददत् एवं स्तुतः केनापि कविना
पीयूषादपि पेशलाः शशधरज्योत्स्नाकलापादपि २० खस्था नूतनचूतमञ्जरिभरादप्युल्लसत्सौरभाः। वाग्देवीमुखसामसूक्तविशदोद्गारादपि प्राञ्जलाः
केषां न प्रथयन्ति चेतसि मुदं श्रीवस्तुपालोक्यः । ॥१॥" वस्तुपाल ! तव पर्वशर्वरी-गर्वितेन्दुकरजित्वरं यशः । क्षीरनीरनिधिवाससः क्षिते-रुत्तरीयतुलनां विगाहते ॥२॥
-
१बसन्त । २ घ-'पूर्णे'। ३ उपजातिः। क-ख. 'शाहिकादि.'। ५ ग-'पाह। ६ शार्दूल । ५ स-घ-'मक्षास.' । ८ शार्दूल•।९ोखता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org