________________
प्रबन्धः ]
sarahitaviar
1
सङ्घदर्शनतुष्टात्मा, भूयांसं विहगोऽप्यहम् ||५|| यद् दाये द्यूतकारस्य, यत् प्रियायां वियोगिनः । यद् राधावेधिनो लक्षे, तद् ध्यानं मेऽस्तु ते मते ॥६॥' इत्याद्यकथयत् । एवं सोऽपि चलितः । ससङ्घः सचिवः मरुदेवाशिखराद यावत् कियदपि याति तावत् श्रमवशविगलत्स्वेदक्किन्नगात्रवसनान् कत्यपि मालिकान् पुष्पकरण्डकभारितशिरसोऽपश्यत् । पृष्टास्ते - कथमुत्सुका इव यूयम् ! । तैर्विज्ञतम् - देव ! वयं दूरात् पुष्पाण्याहार्भः । सङ्घः किल 'शत्रुञ्जय' शिखरेऽस्ति । प्रकृष्टं मूल्यं लप्स्यामहे । तत् पुनरन्यथा 'वृत्तम् । सङ्घश्चलितः । तस्मादभाग्या वयमिति । तेषां दैन्यं दृष्ट्वा मन्त्रिणाऽभाणि - अत्रैव स्थीय - १० तामूर्ध्वेः क्षणम् । तावता पाश्चात्यं सर्वमायातम् । श्रीवस्तुपालेन स्वकुटुम्बं सङ्घश्चाभाण्यताम्, यथा - भो धन्याः ! सर्वेषां पूर्णस्तीर्थवन्दनपूजाभिलाषः ?। लोकेनोक्तम् भवत्प्रसादात् पूर्णः । मन्त्रयाहकिमपि तीर्थमपूजितं स्थितमस्ति ? | लोकः प्राह - प्रत्येकं सर्वाणि तीर्थानि पूजितानि ध्यातानि । मन्त्रिमहेन्द्रः प्राह - यद् विस्मृतं तन्न १५ जानीथ यूयम्; वयं स्मारयामः । सङ्घो वदति - किं विस्मृतम् ! | मन्त्री 'गदति-भो लोकाः ! पूर्व तीर्थमयं पर्वतः यत्र स्वयमृषभदेवः समवासार्षीत् । ततो नेमिवर्जिता द्वाविंशतिर्जिनाः समवासार्षुः । असङ्ख्याः सिद्धाश्च यत्र सोऽद्रिः कथं न तीर्थम् । लोकोऽप्याह-सत्यं तीर्थमयं पर्वतः । तर्हि पूज्यताम् । पुष्पा दीनि क्वेति २० चेदकथयिष्यन् तदा इमे मालिका इमानि पुष्पाणि वः पुण्यैरुपास्थितेति । ततः सङ्घेन तानि पुष्पाणि गृहीत्वाऽद्विपूजा कृता । द्वैम्मेण पुष्पं जातम् । नालिकेर स्फालनवस्त्रदानादिके लयश्च । तुष्टा मालिकाः । एवं पराशाभङ्गपराङ्मुख आसराजभूः । ततः शनैः शनैः पशुतुरङ्गशिश्वाद्यपीडया सङ्घो 'रैवतक' मारुरोह च । नेमिनि २५
२३३
Jain Education International
१-२ अनुष्टुप् । ३ ग - 'जातम् । ४ ग - ' वदति' । ५ क - ' त्रयोविंशति' t 'द्रम्मे० जातम्' इल्लधिको ग-पाठः । ७ बालकप्रमुख० ।
चतुर्विंशति २०
For Private & Personal Use Only
५.
www.jainelibrary.org