________________
२२९.
प्रबन्धः ]
प्रबन्धकोशेत्यपराह्वये २२९ चौलुक्यः परमार्हतो नृपशतस्वामी जिनेन्द्राज्ञया
निर्ग्रन्थाय जनाय दानमनघं न प्राप जानन्नपि । स प्राप्तस्त्रिदिवं स्वचारुचरितैः सत्पात्रदानेच्छया
त्वद्रूपोऽवततार 'गूर्जर'भुवि श्रीवस्तुपालो ध्रुवम् ॥१' ध्वनितः सङ्घः । अथ चलितः सुशकुनैः ससङ्घो मन्त्री । मार्गे ५ सप्तक्षेत्राण्युद्धरन् श्री'वर्धमान'पुरासन्नमावासितः । 'वर्धमान'पुरमध्ये तदा बहुजनमान्यः श्रीमान् रत्ननामा श्रावको वसति । तद्गुहे दक्षिणावर्तः शङ्खः पूज्यते । स रात्रौ करण्डान्निर्गत्य स्निग्धगम्भीरं घुमघुमायते नृत्यति च । तत्प्रभावात् तस्य गृहे चतुरङ्गा लक्ष्मीः । शङ्खन रात्रौ रत्न आलेपे-तव गृहेऽहं चिरमस्थाम् । १० इदानीं तव पुण्यमल्पम् । मां श्रीवस्तुपालपुरुषोत्तमकरपङ्कजप्रणयिनं कुरु । सत्पात्रे महानात् त्वमपीह परत्र च सुखी भवेः । व्यक्तं तज्ज्ञात्वा रत्नो विपुलसामग्याऽभिमुखो गत्वा मन्त्रीशं ससचं निमन्त्र्य स्वगृहे बहुपरिकर भोजयित्वा परिधाप्योचे- एवमेवं शङ्खादेशो मे । गृहाणेमम् । मन्त्र्याह-न वयं परधनार्थिनः । १५ पिशुनाच्छङ्खसत्तां ज्ञात्वा तं ग्रहीष्यति स्वयं मन्त्री, तस्मात् स्वयमेव ददामीत्यपि मा शङ्किष्ठाः, निर्लोभत्वादस्माकमस्मत्प्रभूणां च । इत्युक्त्वा विरते मन्त्रिणि रत्नेन गदितम्-देव! मद्गृहावस्थानमस्मै न रोचते । ततः किं क्रियते ? , गृहाणैव । ततो गृहीतो मन्त्रिणा शङ्खः । तत्प्रभावोऽनन्तः । शनैः शनैः सङ्घः श्री श- २० त्रुञ्जय'तेलहट्टिकामाट । तत्र ललितासरःप्रासादादिकीर्तनानि पश्यन् प्रमुदितः ससङ्घः सचिवः । आरूढः 'शत्रुञ्जया'दिं विवेकं च भावं च । तत्र मन्त्री प्रथमं ऋषभं वन्दते । तदा काव्यपाठः –
, शार्दूल । २ ग- गेहं'। ३ ख-' धुमुधुमा०', घ-' घुलघुमा०' । ४ ग-'भव तस्याभिप्रायं व्यक्तं'। ५ 'तळेटी' इति भाषायाम् । ६ ग-'हट्टिका प्राप्तः'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org