SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [7 श्रीवस्तुपाकआस्यं कस्य न वीक्षितं ? क न कृता सेवा ! न के वा स्तुताः! तृष्णापूरपराहतेन विहिता केषां च नाभ्यर्थना ! । तत् त्रात विमला'द्रिनन्दनवना कल्यैककल्पद्रुम ! स्वामासाद्य कदा कदर्थनमिदं भूयोऽपि नाहं सहे ॥१॥ ५ अथावारितसत्रमेरुध्वजारोपणेन्द्रपदार्थिरञ्जनादीनि कर्तव्यानि विहि तानि । देवेभ्यो हैमानि आरात्रिक-तिलकादीनि दत्तानि । कुमकर्पूरा-गुरु-मृगमद-चन्दन-कुसम-परिमलमिलदलिकुलझङ्कारभारपूरितमिव गगनमभवत् । गीतरासध्वनिभिर्दिक्कुहराणि अभ्रि यन्त । पूर्व मन्त्रिश्रीउदयनदत्ता देवदायाः सर्वेऽपि सविशेषाः १० कृताः । देवद्रव्यनाशनिषेधार्थ चत्वारि श्रावककुलानि अद्री मुक्तानि । अनुपमा दानाधिकारिणी' । तस्याः साधुभ्यो दानानि ददत्याः किल महति वृन्दे पतता घृतकडहट्टकेन क्षौमाण्यभ्युक्तानि । तदा याष्टिकेन कडहट्टभृते साधवे यष्टिप्रहारलेशो दत्तः । मन्त्रिण्या देशनिर्वासनं समादिष्टम् । भाणतं च-रे न वेसि यद्यहं तैलिकपत्नी १५ कान्दविकपत्नी वाऽभविष्यं तदा प्रतिपदं तैलघृताभिष्वङ्गान्मलि नान्येव वासांस्यभविष्यन् । एवं तु वस्त्राभ्यङ्गो भाग्यलभ्यः दर्शनप्रसादादेव स्यात् । य इदं न मन्यते तेन नः कार्यमेव न । इत्युक्तं च । अहो दर्शनभक्तिरिति ध्वनितं सर्वम् । एकदा मन्त्रीश्वरो नाभेयपुर आरात्रिके स्थितोऽस्ति दिव्यधवल२० वासाश्चान्दनतिलको दिव्यपदकहारभूषितोरस्थलः । सूरीणां कवीनां श्रावकश्राविकाणां च नतिः । तिलकं तिलकोपरि । पुष्पना पुष्पस्रगुपरि । तदा सूत्रधारेणैकेन दारवी कुमारदेव्या मातुर्मूर्तिर्महन्त(?)कायनवीनघटिता दृष्टौ कृता । उक्तं च तेनमातुर्मूर्त्तिरियम् । तदा मन्त्रीश्वरेणाशिखानखं दृष्टा मूर्तिः। दृष्ट्वा च १ ग-'त्रुम-', घ-'द्रुमः' । २ शार्दूल । ३ ग-आभरणानि तिलका०' । गघ-'मलदलि.'। ५ 'कृताऽस्ति' इत्यधिको ग-पाठः। ६ घ-कान्दविका वा' । ७५-'मतः'। काष्ठमयी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002625
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages320
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy