________________
२२८
चतुर्विशतिप्रबन्धे [२४ श्रीवस्तुपालनृपव्यापारपापेभ्यः, सुकृतं स्वीकृतं न यैः ।
तान् धूलिधावकेभ्योऽपि, मन्ये मूढतरान् नरान् ॥ २॥ इत्यादि विमृश्य तेजःपालेन नित्यभक्तेन साम्मत्यं कृत्वा 'मलधारि' श्रीनरचन्द्रसूरिपादानपृच्छत्-भगवन् ! या मे चिन्ताऽधुना सा निष्प्रत्यूहं सेत्स्यति ।। प्रभुभिः शास्त्रज्ञकिरीटैरुक्तम्-जिनयात्राचिन्ता वर्तते, सा सेत्स्यति । वस्तुपालेन गदितम्-तर्हि देवालये 'वासनिक्षेपः क्रियताम् । श्रीनरचन्द्रसूरयः प्राहुः-मन्त्रीश! वयं ते मातृपक्षे गुरवः, न पितृपक्षे। पितृपक्षे तु 'नागेन्द्र'गच्छीयाः श्रीअमरचन्द्रसूरिश्रीमाहेन्द्रसूरिपदे श्रीविजयसेनसूरय उदयप्रभसूरिसज्ञकशिण्ययुजो विशालगच्छाः ‘पीलआई'देशे वर्तन्ते ते वासनिक्षेपं कुर्वन्तु, परं न वयम् । यदुक्तम्
जा जस्स ठिई जा जस्स संतई पुव्वपुरिसकयमेरा । कंठट्ठिए वि जाए सा तेण न लंघियव्व त्ति ॥१॥
अथ मन्त्र्याह-अस्माभिर्भवदन्तिके त्रैविद्यषडावश्यक-कर्मप्रकृत्या१५ द्यधीतम् । यूयमेव गुरवः । प्रभुभिरुक्तम्-नैवं वाच्यम् , लोभपि
शाचप्रवेशप्रसङ्गात् । ततो मन्त्रिभ्यां 'मरु'देशाद् गुरवः शीघ्रमानायिताः । मुहूर्तप्रतिष्ठादेवालयप्रस्थापनं वासनिक्षेपणं कुलगुरुभिः कृतम् । साधर्मिकवात्सल्यं शान्तिकं मारिवारणं स्वामिपूजनं ले.क
रञ्जनं चैत्यपरिपाटीपर्यटनं च विहितम् । अथ प्रतिलाभना । तत्र २० मिलिताः कवीश्वराः नरेश्वराः सधेश्वराः । दत्तानि कौशेय-कटक
कुण्डल-हारादीनि लोकेभ्यः । यतिपतिभ्यस्तु तदुचितानि वस्त्रकम्बल-भोज्यादीनि । तदा श्रीनरचन्द्रसूरिभिः सङ्घानुज्ञातैाख्या कृता ।
१ अनुष्टुप् । २ ग-वासक्षेपः' । ३ छाया-या यस्य स्थितियां यस्य सन्ततिः पूर्वपुरुषकृता मर्यादा ।
कण्ठस्थितेऽपि जीवे सा तेन न लछितव्येति ॥ 7 आर्या । ५ ग-'कौशवकटक.'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org